सामग्री पर जाएँ

धर्म्मलक्षण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धर्म्मलक्षण¦ न॰ धर्मो लक्ष्यते ज्ञायतेऽनेन लक्ष--करणे ल्युट्।

१ धर्मप्रमापके वेदादौ। धर्ममूलशब्दे दृश्यम्।

२ मीमांसायां स्त्री ङीप्। भावे ल्युट्

६ त॰। चोदनालक्ष-णोऽर्थो धर्मः” जै॰ सूत्रोक्ते

३ धर्मस्य लक्षणे इतरभे-दानुमापके धर्मस्वरूपादौ च धर्मशब्दे दृश्यम्।
“धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः। धी-र्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम्” इति मनूक्ते।
“पात्रे दानं मतिः कृष्णे मातापित्रोश्च पूजनम्। श्रद्धावलिर्गवां ग्रासः षड्विधं धर्मलक्षणम्” इत्युक्ते च

४ धर्मस्य साधने च।

"https://sa.wiktionary.org/w/index.php?title=धर्म्मलक्षण&oldid=329091" इत्यस्माद् प्रतिप्राप्तम्