धर्म्मवैतंसिकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धर्म्मवैतंसिकः, पुं, (धर्म्मे वैतंसिक इव । आत्मनो धार्म्मिकत्वविज्ञापनाय पाशिकः कपटाचारी वेत्यर्थः ।) पांपकर्म्मणा धनमासाद्यात्मनो धार्म्मिकत्वख्यापनाय दानकर्त्ता । तत्पापफलं यथा, -- “धर्म्मवैतंसिको यस्तु पापात्मा पुरुषस्तथा । ददाति दानं विप्रेभ्यो लोकविश्वासकारणम् ॥ पापेन कर्म्मणा विप्रो धनं लब्ध्वा निरङ्कुशः । रागमोहान्वितोऽशान्तः कलुषीं योनिमाप्नु- यात् ॥” इति वह्निपुराणे स्नानविधिनामाध्यायः ॥
