धर्म्मव्याधः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धर्म्मव्याधः, पुं, (धर्म्मप्रधानो व्याधः । शाकपार्थि- वादिवत् मध्यपदलोपिसमासः ।) पापपुरुष- विशेषः । स तु काश्मीरदेशाधिपवसुनामनृप- देहनिर्गतव्याधरूपिब्रह्महत्यात्मकः । तस्य राज्ञो वरेण तस्य धर्म्मव्याध इति संज्ञाभूत् । यथा, -- “ततः पुत्त्रं विवस्वन्तं श्रेष्ठं भ्रातृशतस्य ह । अभिषिच्य स्वके राज्ये तपोवनमुपागमत् ॥ पुष्करं नाम तीर्थानां प्रवरं यत्र केशवः । पुण्डरीकाक्षनामा तु पूज्यते तत्परायणैः ॥ तत्र गत्वा स राजर्षिः काश्मीराधि पतिर्व्वसुः । अतितीव्रेण तपसा स्वशरीरमशोषयत् ॥ पुण्डरीकाक्षपारं तु स्तवं भक्त्या जपन् बुधः । नमस्ते पुण्डरीकाक्ष नमस्ते मधुसूदन ! । नमस्ते सर्व्वलोकेश ! नमस्ते तिग्मचक्रिणे ॥” इत्यादि । “एवन्तु वदतस्तस्य मूर्त्तिमान् पुरुषः किल । निर्गत्य देहान्नीलाभो घनचण्डो भयङ्करः ॥ उवाच प्राञ्जलिर्भूत्वा किं करोमि नराधिप ! ॥ राजोवाच । कोऽसि किं कार्य्यमिह ते कस्मादागतवानसि । एतन्मे कथय व्याध ! एतदिच्छामि वेदितुम् ॥ व्याध उवाच । पूर्ब्बं कलियुगे राजन् ! राजा त्वं दक्षिणामुखे । अरण्यमागतो हन्तुं श्वापदानि विशेषतः ॥ तत्र त्वयान्यकामेन मृगवेशधरो मुनिः । दण्डयुग्मेन दूरे तु पातितो धरणीतले ॥ ततस्त्वया महाराज ! सकृन्नारायणं प्रभुम् । संचिन्त्य द्वादशी शुद्धात्वया राजन् ! उपोषिता ॥ गौर्दत्ता विधिना सद्यो मृतोऽस्युदरशूलतः । अहञ्च तव देहस्थः सर्व्वं जानामि चाक्षयम् ॥ स्वगस्थस्यापिराजेन्द्र ! स्थितोऽहं स्वेन तेजसा । इदानीमादिसृष्टौ तु कृते नृपतिसत्तम ! ॥ सम्भूतस्त्वं महाराज ! राज्ञः सुमनसो गृहे । इदानीं यत् त्वया स्तोत्रं पुण्डरीकाक्षपारगम् ॥ पठितं तत्प्रभावेण विहायाङ्गरुहाण्यहम् । एकीभूतः पुनर्ज्जातो व्याधरूपो नृपोत्तम ! ॥ एतत् श्रुत्वा वचो राजा परं विस्मयमागतः । वरेण छन्दयामास तं व्याधं राजसत्तमः ॥ राजोवाच । स्मारितोऽस्मि महाव्याध ! त्वया जन्मान्तरं गतम् । तथा त्वं मत्प्रसादेन धर्म्मव्याधो भविष्यसि ॥” इति वाराहे आदिकृतवृत्तान्तनामाध्यायः ॥ (अपरो धार्म्मिको व्याधविशेषः । अस्य विव- रणन्तु महाभारते । ३ । २०६ अध्यायमारभ्य विशेषतो द्रष्टव्यम् ॥)
