सामग्री पर जाएँ

धर्म्मशास्त्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धर्म्मशास्त्रम्, क्ली, (धर्म्मस्य धर्म्माय वा शास्त्रम् ।) मन्वादिप्रणीतशास्त्रम् । तत्पर्य्यायः । स्मृतिः २ धर्म्मसंहिता ३ । इति हेमचन्द्रः ॥ धर्म्मशास्त्र- प्रयोजका यथा, याज्ञवल्क्ये । १ । ५-६ । “मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनोऽङ्गिराः । यमापस्तम्बसम्बर्त्ताः कात्यायनवृहस्पती ॥ पराशरव्यासशङ्खलिखिता दक्षगोतमौ । शातातपो वशिष्ठश्च धर्म्मशास्त्रप्रयोजकाः ॥” एते प्रधानानि अन्येऽपि सन्ति ॥ रघुनन्दन- धृतधर्म्मशास्त्राणि यथा, -- “मलिम्लुचे दायभागे संस्कारे शुद्धिनिर्णये । प्रायश्चित्ते विवाहे च तिथौ जन्माष्टमीव्रते ॥ दुर्गोत्सवे व्यवहृतावेकादश्यादिनिर्णये । तडागभवनोत्सर्गे वृषोत्सर्गत्रये व्रते ॥ प्रतिष्ठायां परीक्षायां ज्योतिषे वास्तुसंज्ञके । दीक्षायामाह्निके कृत्ये क्षेत्रे श्रीपुरुषोत्तमे ॥ सामश्राद्धे यजुःश्राद्धे शूद्रकृत्यविचारणे । इत्यष्टाविंशतिस्थाने तत्त्वं वक्ष्यामि यत्नतः ॥” इति रघुनन्दनभट्टाचार्य्यः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धर्म्मशास्त्र¦ न॰ शिष्यतेऽनेन शास--करणे ष्ट्रन्

६ त॰। धर्म-शासने मन्वादिप्रणीते धर्मप्रतिपादके ग्रन्थभेदेस्मृतिशास्त्रे तस्य कर्त्तारश्च हेमाद्रिव्रतखण्डे दर्शिता यथा
“शाङ्खलिखितौ स्मृतयो धर्मशास्त्राणि तेषां प्रणे-तारोमनुविष्णुयमदक्षाङ्गिरोऽत्रिवृहस्पत्युशनआपस्तम्बव-शिष्ठकात्यायगपराशरव्यासशङ्खलिखितसवर्त्तगौतमशाता-तपहारीतयाज्ञवल्क्यप्राचेतसादयः”। यमः
“मनुर्यमो-वसिष्ठोऽत्रिः दक्षो विष्णुस्तथाङ्गिराः। उशना वाक्-पतिर्व्यास आपस्तम्बोऽथ गौतमः। कात्यायनो नार-दश्च याज्ञवल्क्यः पराशरः। संवर्त्तश्चैव शङ्खश्च हा-रीतो लिखितस्तथा। एतैर्यानि प्रणीतानि धर्मशा-[Page3863-b+ 38] स्त्राणि वै पुरा। तान्येवाति प्रमाणानि न हन्तव्यानिहेतुभिः”
“आदिशब्दाच्च वृद्धदेवलसोमजमदग्निप्रजापति-विश्वामित्रवृद्धशातातपपैठीनसिपितामहबौधायनच्छागलेय-जाबालिच्यवनमरीचिकश्यपाः” तथा हि भविष्यपुराणे
“अष्टादशपुराणेषु यानि वाक्यानि पुत्रक!। तान्यालोच्यमहाबाहो! तथा स्मृत्यन्तरेषु च। मन्वादिस्मृतयो याश्चषड्विंशत् परिकीर्त्तिताः। तासां वाक्यानि क्रमशःसमालोक्य व्रवीमि ते” इति। मन्वादिस्मृतीनां षड्-त्रिंशत्त्वमुक्तम्, तच्चानन्तरोक्ताभिरेव पूर्य्यते। यानिपुनर्महाभारतरामायणविष्णुधर्मशिवधर्मप्रभृतीनि गृह्य-परिशिष्टानि च तानि च स्मृत्यन्तरेषु चेत्यनेनैवोक्तानितथा चोक्तं भविष्यपुराणे
“अष्टादश पुराणानि रामस्यचरितं तथा। विष्णुधर्माणि शास्त्राणि शिवधर्माश्चभारत!। कार्ष्णञ्च पञ्चमोदेवो यन्महामारतं स्मृतम्। सौराश्च धर्मा राजेन्द्र! मानवोक्ता महीपते!। जयेतिनाम चैतेषां प्रवदन्ति मनीषिण इति”
“तदपि स्मृत्य-न्तरेषुचैवेत्यनेनैव परिगृहीतं वेदितव्यम्” हेमाद्रि॰ व्र॰।

"https://sa.wiktionary.org/w/index.php?title=धर्म्मशास्त्र&oldid=329160" इत्यस्माद् प्रतिप्राप्तम्