सामग्री पर जाएँ

धर्म्मशास्त्रम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धर्म्मशास्त्रम्, क्ली, (धर्म्मस्य धर्म्माय वा शास्त्रम् ।) मन्वादिप्रणीतशास्त्रम् । तत्पर्य्यायः । स्मृतिः २ धर्म्मसंहिता ३ । इति हेमचन्द्रः ॥ धर्म्मशास्त्र- प्रयोजका यथा, याज्ञवल्क्ये । १ । ५-६ । “मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनोऽङ्गिराः । यमापस्तम्बसम्बर्त्ताः कात्यायनवृहस्पती ॥ पराशरव्यासशङ्खलिखिता दक्षगोतमौ । शातातपो वशिष्ठश्च धर्म्मशास्त्रप्रयोजकाः ॥” एते प्रधानानि अन्येऽपि सन्ति ॥ रघुनन्दन- धृतधर्म्मशास्त्राणि यथा, -- “मलिम्लुचे दायभागे संस्कारे शुद्धिनिर्णये । प्रायश्चित्ते विवाहे च तिथौ जन्माष्टमीव्रते ॥ दुर्गोत्सवे व्यवहृतावेकादश्यादिनिर्णये । तडागभवनोत्सर्गे वृषोत्सर्गत्रये व्रते ॥ प्रतिष्ठायां परीक्षायां ज्योतिषे वास्तुसंज्ञके । दीक्षायामाह्निके कृत्ये क्षेत्रे श्रीपुरुषोत्तमे ॥ सामश्राद्धे यजुःश्राद्धे शूद्रकृत्यविचारणे । इत्यष्टाविंशतिस्थाने तत्त्वं वक्ष्यामि यत्नतः ॥” इति रघुनन्दनभट्टाचार्य्यः ॥

"https://sa.wiktionary.org/w/index.php?title=धर्म्मशास्त्रम्&oldid=142434" इत्यस्माद् प्रतिप्राप्तम्