सामग्री पर जाएँ

धर्म्मसारः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धर्म्मसारः, पुं, (धर्म्मस्य सारः ।) श्रेष्ठपुण्यकर्म्म । यथा । ब्रह्मोवाच । “धर्म्मसारमहं वक्ष्ये सङ्क्षेपाच्छृणु शङ्कर ! । भुक्तिमुक्तिप्रदं सूक्ष्मं सर्व्वपापविनाशनम् ॥ श्रुतं ब्रह्म बलं धैर्य्यं सुखमुत्साहमेव च । शीको हरति वै नॄणां तस्माच्छोकं परित्यजेत् ॥ कर्म्मदेवाः कर्म्मलोकाः कर्म्मसम्बन्धिबान्धवाः । कर्म्माणि प्रेरयन्तीह पुरुषं सुखदुःखयोः ॥ दानमेव परो धर्म्मो दानात् सर्व्वमवाप्यते । दानान्मुक्तिञ्च राज्यञ्च दद्याद्दानं ततो नरः ॥ एकतः क्रतवः सर्व्वे समग्रवरदक्षिणाः । एकतो भयभीतस्य प्राणिनः प्राणरक्षणम् ॥ तपसा ब्रह्मचर्य्येण यज्ञैस्त्यागेन वा पुनः । गतिन्तु लभते जन्तुर्गङ्गां संसेव्य यां लभेत् ॥ अश्रद्धा परमं पापं श्रद्धा पापप्रणाशिनी । जहाति पापं श्रद्धावान् जीर्णां त्वचमिवोरगः ॥ न पुराकृतपुण्यानां नराणामिह शङ्कर ! । त्रीण्येतानि प्रपद्यन्ते श्रद्धादातव्यमर्थिनः ॥ दूरादतिथयो यस्य गृहमायान्त्यवारिताः । स गृहस्थ इति प्रोक्तः शेषास्तु गृहरक्षकाः ॥ न चिन्तयन्ति ये विष्णुं नार्च्चयन्ति च ये नराः । धर्म्मस्य नाशका ये च ते वै निरयगामिनः ॥ ये च होमजपस्नानदेवतार्च्चनतत्पराः । सत्यक्षान्तिदयायुक्तास्ते नराः स्वर्गगामिनः ॥ न दाता सुखदुःखानां न च हर्त्तास्ति कश्चन । स्वकृतान्येव भुज्यन्ते दुःखानि च सुखानि च ॥ धर्म्मार्थं जीवितं येषां सन्तानार्थञ्च मैथुनम् । देवार्थं तर्पणं येषां दुर्गाण्यभितरन्ति ते ॥ सन्तुष्टः को न शक्नोति फलमूलैश्च जीवितुम् । सर्व्व एव हि साम्येन शङ्कटान्यवगाहते ॥ लोभात् क्रोधः प्रभवति लोभाद्द्रोहः प्रवर्त्तते । लोभान्मोहश्च माया च मानो मत्सर एव च ॥ रागद्वे षानृतक्रोधलोभमोहमदोज्झितः । यः स शान्तः परं लोकं याति पापविवर्ज्जितः ॥ देवता मुनयो नागा गन्धर्व्वा गुह्यका नराः । धार्म्मिकं पूजयन्तीह न धनाढ्यं न कामिनम् ॥ न मन्त्रबलवीर्य्येण प्रज्ञया पौरुषेण वा । अलभ्यं लभते मर्त्यस्तत्र का परिदेवना ॥ यथामिषं जले मत्स्यैर्भक्ष्यते श्वापदर्भवि । आकाशे पक्षिभिर्न्नित्यं तथा सर्व्वत्र वित्तवान् ॥ सर्व्वसत्त्वदयालुत्वं सर्व्वेन्द्रियविनिग्रहः । सर्व्वत्रानित्यबुद्धित्वं श्रेयः परमिदं स्मृतम् ॥ पश्यन्निवाग्रतो मृत्युं यो धर्म्मं नाचरेन्नरः । अजागलस्तनस्येव तस्य जन्म निरर्थकम् ॥ भ्रणहा ब्रह्महा गोघ्नः पितृहा गुरुतल्पगः । भूमिं सर्व्वगुणोपेतां दत्त्वा पापैः प्रमुच्यते ॥ न गोदानात् परं दानं किञ्चिदस्तीति मे मतिः । सा गौर्न्यायार्ज्जिता दत्त्वा कृत्स्नं तारयते कुलम् ॥ नान्नदानात् परं दानं किञ्चिदस्ति वृषध्वज ! । अन्नेन धार्य्यते सर्व्वं चराचरमिदं जगत् ॥ कन्यादानं वृषोत्सर्गं जपस्तीर्थं श्रुतं तथा । हस्त्यश्वरथदानानि मणिरत्नवसुन्धराः ॥ अन्नदानस्य सर्व्वाणि कलां नार्हन्ति षोडशीम् । अन्नात् प्राणो बलं तेजश्चान्नाद्वीर्य्यं धृतिः स्मृतिः ॥ कूपवापीतडागादि आरामाणि च कारयेत् । त्रिःसप्तकुलमुद्धृत्य विष्णुलोके महीयते ॥ साधूनां दर्शनं पुण्यं तीर्थादपि विशिष्यते । कालेन फलते तीर्थं सद्यः साधुसमागमः ॥ सत्यं दमस्तपः शौचं सन्तोषः क्षान्तिरार्ज्जवम् । ज्ञानं शमो दया दानमेष धर्म्मः सनातनः ॥” इति गारुडे २२५ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=धर्म्मसारः&oldid=142441" इत्यस्माद् प्रतिप्राप्तम्