सामग्री पर जाएँ

धर्म्मसावर्णि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धर्म्मसावर्णिः, पुं, (धर्म्म एव सावर्णिः सूर्य्यपुत्त्री मनुः ।) एकादशो मनुः । अस्मिन्मन्वन्तरे धर्म्मसेतुरवतारः । वैधृत इन्द्रः । विहड्गमकाम- गमाद्या देवाः । अरुणादयः सप्तर्षयः । सत्य- धर्म्मादयो मनुपुत्त्रा भविष्यन्ति । इति श्रीभाग- वतम् ॥ * ॥ “भविष्यधर्म्मपुत्त्रस्य सावर्णस्यान्तरं शृणु । विहङ्गमाः कामगमा निर्म्माणरतयस्तथा ॥ त्रिप्रकारा भविष्यन्ति एकैकस्त्रिंशको गणः । मासर्त्तुदिवसा ये तु निर्म्माणरतयस्तु ते ॥ विहङ्गमा रात्रयोऽथ मुहूर्त्ताः कामगो गणः । इन्द्रो वृषाख्यो भविता तेषां प्रख्यातविक्रमाः ॥ हविष्मांश्च धनिष्ठश्च ऋषिरन्यस्तथारुणिः । निश्चरश्चानघश्चैव वृष्णिश्चान्यो महामुनिः ॥ सप्तर्षयोऽन्तरे तस्मिन्नग्नितेजाश्च सप्तमः ॥ सर्व्वानुगः सुशर्म्मा च देवानीकः पुरूद्बहः ॥ हेमधन्वा दृढायुश्च विभानुस्तत्सुता नृपाः ॥” इति मार्कण्डेयपुराणम् ॥

"https://sa.wiktionary.org/w/index.php?title=धर्म्मसावर्णि&oldid=142438" इत्यस्माद् प्रतिप्राप्तम्