सामग्री पर जाएँ

धर्म्माधर्म्मपरीक्षण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धर्म्माधर्म्मपरीक्षणम्, क्ली, (धर्म्मश्च अधर्म्मश्च तयोः परीक्षणम् ।) परीक्षाविशेषः । यथा, -- “अधुना संप्रवक्ष्यामि धर्माधर्म्मपरीक्षणम् । हन्तॄणां याचमानानां प्रायश्चित्तार्थिनां नृणाम् ॥ राजतं कारयेत् धर्म्ममधर्म्मं सीसकायसम् । लिखेत् भूर्जे पटे वापि धर्म्माधर्म्मौ सितासितौ ॥ अभ्युक्ष्य पञ्चगव्येन गन्धमाल्यैः समर्च्चयेत् । सितपुष्पस्तु धर्म्मः स्यादधर्म्मोऽसितपुष्पधृक् ॥ एवं विधायोपलिख्य पिण्डयोस्तौ निधापयेत् । गोमयेन मृदा वापि पिण्डौ कार्य्यौ समन्ततः ॥ मृद्भाण्डक उपहृते स्थाप्यौ चानुपलक्षितौ । उपलिप्ते शुचौ देशे देवब्राह्मणसन्निधौ ॥ आवाहयेत् ततो देवान् लोकपालांश्च पूर्ब्बवत् ॥ धर्म्मावाहनपूर्ब्बन्तु प्रतिज्ञापत्रकं लिखेत् । यदि पापविमुक्तोऽहं धर्म्मस्त्वायातु मे करे ॥ अशुद्धश्चेन्मम करे पापमायातु धर्म्मतः । अभियुक्तस्तयोश्चैकं प्रगृह्णीताविलम्बितः ॥ धर्म्मे गृहीते शुद्धः स्यादधर्म्मे तु स हीयते । एवं समासतः प्रोक्तं धर्म्माधर्म्मपरीक्षणम् ॥” इति मिताक्षरा ॥