सामग्री पर जाएँ

धर्म्माधिकरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धर्म्माधिकरणम्, क्ली, (अधिक्रियते अस्मिन्निति । अधि + कृ + अधिकरणे ल्युट् । धर्म्मस्य अधि- करणम् ।) राज्ञो विचारस्थानम् । यथा, -- “धर्म्मशास्त्रानुसारेण अर्थशास्त्रनिरूपणम् । यत्राधिक्रियते स्थाने धर्म्माधिकरणं हि तत् ॥” इति वीरमित्रोदये कात्यायनवचनम् ॥ * ॥ “पुरुषान्तरतत्त्वज्ञाः प्रांशवश्चाप्यलोलुपाः । धर्म्माधिकरणे कार्य्या जनाह्वानकरा नराः ॥” इति मत्स्यपुराणे १८९ अध्यायः ॥

धर्म्माधिकरणः, पुं, (धर्म्माधिकरणं आश्रयत्वेनास्त्य- स्येति । अच् ।) धर्म्माध्यक्षः । तस्य लक्षणम् । यथा, मत्स्यपुराणे १८९ अध्याये । “समः शत्रौ च मित्रे च सर्व्वशास्त्रविशारदः । विप्रमुख्यः कुलीनश्च धर्म्माधिकरणो भवेत् ॥”

"https://sa.wiktionary.org/w/index.php?title=धर्म्माधिकरण&oldid=142449" इत्यस्माद् प्रतिप्राप्तम्