सामग्री पर जाएँ

धर्म्माध्यक्षः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धर्म्माध्यक्षः, पुं, (धर्म्मे धर्म्माधिकरणे अध्यक्षः ।) धर्म्माधिकरणी । इति हेमचन्द्रः । ३ । ३८८ ॥ “कुलशीलगुणोपेतः सर्व्वधर्म्मपरायणः । प्रवीणः प्रेषणाध्यक्षो धर्म्माध्यक्षो विधीयते ॥” इति चाणक्ये । १०२ ॥ (विष्णुः यथा, महाभारते । १३ । १४९ । २८ । “लोकाध्यक्षः सुराध्यक्षो धर्म्माध्यक्षः कृताकृतः ॥” “धर्म्माधर्म्मो साक्षादीक्षते अनुरूपं फलं दातुम् । तस्माद्धर्म्माध्यक्षः ।” इति शाङ्करभाष्यम् ॥)

"https://sa.wiktionary.org/w/index.php?title=धर्म्माध्यक्षः&oldid=142455" इत्यस्माद् प्रतिप्राप्तम्