धर्म्मासनम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धर्म्मासनम्, क्ली, (धर्म्माय व्यवहारकार्य्यसाधनाय यदासनम् ।) विचारासनम् । वेञ्च् इति इंराजी- भाषा । यथा, -- “धर्म्मासनमधिष्ठाय संवीताङ्गः समाहितः । प्रणम्य लोकपालेभ्यः कार्य्यदर्शनमारभेत् ॥” इति मनुः । ८ । २३ ॥
