धर्म्मिन्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धर्म्मी, [न्] (त्रि, धर्म्मोऽस्यास्तीति । धर्म्म + “अत इनिठनौ ।” ५ । २ । ११५ । इति इनिः ।) धर्म्मवान् । पुण्यशीलः । इति शब्दरत्नावली ॥ (पुं, विष्णुः । यथा, महाभारते । १३ । १४९ । ६४ । “धर्म्मगुप् धर्म्मकृद्धर्म्मी सदसत्क्षरमक्षरम् ॥” “धर्म्माधारतया धर्म्मी ।” इति शाङ्करभाष्यम् ॥)
