धर्म्म्यः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धर्म्म्यः, त्रि, (धर्म्म + “धर्म्मपथ्यर्थन्यायादनपेते ।” ४ । ४ । ९२ । इति यत् ।) धर्म्मादनपेतः । धर्म्मयुक्तः । यथा, श्रीभगवद्गीतायाम् । “धर्म्म्याद्धि युद्धात् श्रेयोऽन्यत् क्षत्त्रियस्य न विद्यते ॥” “न्यूनाधिकविभक्तानां धर्म्म्यः पितृकृतः स्मृतः ॥” इति दायभागः ॥ (धर्म्मेण प्राप्यः । “नौवयोधर्म्मेति ।” ४ । ४ । ९१ । इति यत् धर्म्मलभ्यः । इति सिद्धान्तकौमुदी ॥)
