सामग्री पर जाएँ

धर्म्म्यविवाहः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धर्म्म्यविवाहः, पुं, (धर्म्म्यः धर्म्मार्हो विवाहः ।) विवाहविशेषः । स च पञ्चविधः । ब्राह्म- दैवार्षगान्धर्व्वप्राजापत्यरूपः । अधर्म्म्यविवाह- स्त्रिविधः । असुरराक्षसपैशाचरूपः । यथा, “धर्म्म्येष्वेव विवाहेषु कालपरीक्षणं नाधर्म्म्येषु ॥” इत्युद्वाहतत्त्वम् ॥ (यस्य वर्णस्य यो विवाहो धर्म्म्यः स उक्तो यथा, मनौ । ३ । २१ -- २६ । “ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः । गान्धर्व्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः ॥ यो यस्य धर्म्म्यो वर्णस्य गुणदोषौ च यस्य यौ । तद्वः सर्व्वं प्रवक्ष्यामि प्रसवे च गुणागुणान् ॥ षडानुपूर्ब्ब्या विप्रस्य क्षत्त्रस्य चतुरोऽरवान् । विट्शूद्रयोस्तु तानेव विद्याद्धर्म्म्यान्न राक्षसान् ॥ चतुरो ब्राह्मणस्याद्यान् प्रशस्तान् कवयो विदुः । राक्षसं क्षत्त्रियस्यैकमासुरं वैश्यशूद्रयोः ॥ पञ्चानान्तु त्रयो धर्म्म्या द्वावधर्म्मौ स्मृताविह । पैशाचश्चासुरश्चैव न कर्त्तव्यौ कदाचन ॥ पृथक् पृथग्वा मिश्रौ वा विवाहौ पूर्ब्बचोदितौ । गान्धर्व्वोराक्षसश्चैव धर्म्म्यौ क्षत्त्रस्य तौ स्मृतौ ॥”)

"https://sa.wiktionary.org/w/index.php?title=धर्म्म्यविवाहः&oldid=142468" इत्यस्माद् प्रतिप्राप्तम्