धवः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धवः, पुं, (धुनोति धवतीति वा । धु धू वा + अच् ।) पतिः । (यथा, हरिवंशे भविष्य- पर्व्वणि । १६ । ४५ । “मा विद्या च हरेः प्रोक्ता तस्या ईशो यतो भवान् । तस्मान्माधवनामासि धवः स्वामीति शब्दितः ॥”) नरः । इत्यमरः । ३ । ३ । २०५ ॥ (यथा, -- पञ्चतन्त्रे । २ । १०९ । “शौचविशिष्टयाप्यस्ति किञ्चित् कार्य्यं क्वचि- न्मृदा । निर्धनेन धवेनेह न तु किञ्चित् प्रयोजनम् ॥”) धूर्त्तः । इति मेदिनी । वे, १३ ॥ स्वनामख्यात- वृक्षः । (यथा, महाभारते । १ । ६९ । १७ । “विल्वार्कखदिराकीर्णं कपित्थधवसङ्कुलम् ॥”) तत्पर्य्यायः । धुरन्धरः २ शाकटाख्यः ३ । इति रत्नमाला ॥ दृढतरुः ४ गौरः ५ कषायः ६ मधुरत्वक् ७ शुष्कवृक्षः ८ पाण्डुतरुः ९ धवलः १० पाण्डुरः ११ । अस्य गुणाः । कषायत्वम् । कटुत्वम् । कफानिलनाशित्वम् । पित्तप्रकोपण- त्वम् । रुच्यत्वम् । दीपनत्वञ्च । अन्यच्च । शीत- त्वम् । प्रमेहार्शःपाण्डुपित्तकफापहत्वम् । मधु- रत्वम् । तुवरत्वम् । तिक्तत्वञ्च । तन्नामगुणाः । “धवो घटो नन्दितरुः स्थिरो धौरो धुरन्धरः । धवः शीतप्रमेहार्शःपाण्डुपित्तकफापहः ॥ मधुरस्तुवरस्तस्य फलञ्च मधुरं मनाक् ॥” इति भावप्रकाशः ॥ तत्फलं ईषन्मधुरम् । इति राजनिर्घण्टः ॥ (धु कम्पने + “ऋदोरप् ।” ३ । ३ । ५७ । इति भावे अप् । कम्पनम् ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धवः [dhavḥ], 1 Shaking, trembling.
A man.
A husband, as in विधवा.
A master, lord.
A rogue, cheat.
A kind of tree; Anogeissus latifolia; (Mar. धावडा); Rām.1.24.15.
