सामग्री पर जाएँ

धवलः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धवलः, पुं, (धावतीति । धाव ञ् जवमृजोः + “धावतेर्बाहुलकात् ह्रस्वत्वञ्च ।” १ । १०८ । इत्युज्ज्वलदत्तोक्त्या कलः ह्रस्वश्च ।) धववृक्षः । चीनकर्पूरः । इति राजनिर्घण्टः ॥ राग- विशेषः । भरतमते हिन्दोलरागस्याष्टमपुत्त्रः । इति सङ्गीतशास्त्रम् ॥ वृषश्रेष्ठः । शुक्लः । सुन्दरे, त्रि । इत्युणादिकोषः ॥ श्वेतगुणयुक्ते, त्रि । इत्यमरः । १ । ५ । १३ ॥ (यथा, आर्य्या- सप्तसत्याम् । ३०६ । “धवलनखलक्ष्म दुर्ब्बलमकलितनेपथ्यमलकपिहिताक्ष्याः ॥”) श्वेतमरिचे, क्ली । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=धवलः&oldid=142488" इत्यस्माद् प्रतिप्राप्तम्