धातकी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धातकी, स्त्री, (धातुं करोतीति । धा + तत्करो- तीति णिच् । टिलोपः । ततः क्वुन् । ततः पिप्पल्यादित्वात् ङीष् ।) पुष्पविशेषः । धाइ- फुल् इति भाषा । तत्पर्य्यायः । वह्निपुष्पी २ ताम्रपुष्पी ३ धावनी ४ अग्निज्वाला ५ सुभिक्षा ६ पार्व्वती ७ बहुपुष्पिका ८ कुमुदा ९ सीधु- पुष्पी १० कुञ्जरा ११ मद्यवासिनी १२ गुच्छ- पुष्पी १३ संधपुष्पी १४ रोध्रपुष्पिणी १५ तीव्र- ज्वाला १६ वह्निशिखा १७ मद्यपुष्पा १८ । इति राजनिर्घण्टः ॥ धातृपुष्पी १९ धातुपुष्पी २० धातृपुष्पिका २१ धात्री २२ धातुपुष्पिका २३ । इति शब्दरत्नावली ॥ अस्या गुणाः । कटुत्वम् । उष्णत्वम् । मदकारित्वम् । विष- प्रवाहिकातिसारविसर्पव्रणनाशित्वञ्च । इति राजनिर्घण्टः ॥ शीतत्वम् । रक्तपित्तनाशि- त्वञ्च । इति राजवल्लभः ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धातकी स्त्री।
धातकी
समानार्थक:अग्निज्वाला,सुभिक्षा,धातकी,धातुपुष्पिका
2।4।124।2।3
महेरणा कुन्दुरुकी सल्लकी ह्लादिनीति च। अग्निज्वालासुभिक्षे तु धातकी धातुपुष्पिका॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धातकी¦ f. (-की) A tree, (Grislea tomentosa.) E. धा to have, affix ण्वुल्, तन् inserted.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धातकी f. Grislea Tomentosa Sus3r.