धानाः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धानाः, स्त्री, (धीयन्ते इति । या + “धापवस्य- ज्यतिभ्यो नः ।” उणां । ३ । ६ । इति नः टाप् च ।) भृष्टयवः । बहुवचनान्तोऽयं शब्दः । इत्यमरः । २ । ९ । ४७ ॥ (यथा, ऋग्वेदे । ३ । ३५ । ३ । “ग्रसेतामश्वा वि मुचेह शोणा दिवे दिवेस दृशी- रद्धि धानाः ॥” “त्वन्तु सदृशीरेकरूपान् धाना भृष्टयवान् दिवे दिवे प्रतिदिवसमद्वि भक्षय ।” इति तद्भाष्ये मुयिनः ।) “यवास्तु निस्तुषा भृष्टाः स्मृता धाना इति स्त्रियाम् । धानाः स्युर्दुर्ज्जरा रूक्षास्तृट्प्रदा गुरवश्च ताः ॥ तथा मेदःकफच्छर्द्दिनाशन्यः संप्रकीर्त्तिताः ॥” इति राजनिर्घण्टः ॥ (“धानासंज्ञास्तु मे भक्ष्याः प्रायस्ते लेखनात्मकाः । शुष्कत्वात्तर्षणा चैव विष्टम्बित्वाच्च दुर्ज्जराः ॥ विरूढधानाः शष्कुल्यो मधुक्रोडाः सपिण्डकाः । सूपाः पूपुलिकाद्याश्च गुरवः पैष्टिकाः परम् ॥” “धाना पर्पटपूपाद्यास्तान् बुद्ध्वा निर्द्दिशेत्तथा ॥” इति चरके सूत्रस्थाने २७ अध्यायः ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धानाः [dhānāḥ], f. (pl.)
Fried barley or rice; यथा धानासु वै धाना भवन्ति न भवन्ति च Bhāg.6.15.4.
Grain fried or powdered.
Corn, grain.
A bud, shoot; धानारुह इव वै वृक्षो$ञ्जसा प्रेत्य संभवः Bṙi. Up.3.9.28; अन्ने प्रलीयते मर्त्यमन्नं धानासु लीयते Bhāg.11.24.22.
Coriander.-Comp. -चूर्णम् the meal of fried rice. -पूपः a cake of fried barley. -भर्जनम् the frying of grain.
