धान्यकम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धान्यकम्, क्ली, (धान्यमिव प्रतिकृतिः । “इवे प्रति- कृतौ ।” ५ । ३ । ९६ । इति कन् ।) धान्या- कम् । इति राजनिर्घण्टः ॥ (यथा, सुशुते चिकित्सितस्थाने ५ अध्याये । “लङ्घनानन्तरं चान्नकाले धान्यकजीरकादिदीपनसिद्धान्य- न्नानि ॥” अस्य गुणा यथा, -- “धान्यकञ्चाजगन्धा च सुमुखाश्चेति रोचनाः । सुगन्धा नातिकटुका दोषानुत्क्लेशयन्ति तु ॥” इति चरके सूत्रस्थाने सप्तविंशेऽध्याये ॥ धान्यमेव स्वार्थे कन् । धान्यम् । पुं, क्षत्त्रियनृपति- विशेषः । यथा, राजतरङ्गिण्याम् । ८ । १०८५ । “राजन्याविच्छिटकुलोद्भूतावुदयधान्यकौ ॥”)
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--one of the eight सौभाग्यम्स्। M. ६०. 8 and २८.
