धान्यधेनुः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धान्यधेनुः, स्त्री, (धान्यनिर्म्मिता धेनुः ।) दानार्थ- धान्यनिर्म्मितधेनुः । यथा, -- “विषुवे चायने वापि कार्त्तिक्यान्तु विशेषतः । तदिदानीं प्रवक्ष्यामि धान्यधेनुविधिं परम् ॥ यां दत्त्वा सर्व्वपापेभ्यः शशाङ्क इव राहुतः ॥ दशधेनुप्रदानेन यत् फलं राजसत्तम ! । तत् सर्व्वमेवमाप्नोति व्रीहिधेनुप्रदो नरः ॥ कृष्णाजिनं ततः कृत्वा प्राग्वद्वत् संन्यसेद्बुधः । गोमयेनानुलिप्तायां शोभनां वस्त्रसंयुताम् ॥ पूजयेद्वेदिमध्ये तु वेदनिर्घोषमङ्गलैः ॥ उत्तमा धान्यधेनुः स्याद्द्रोणश्चापि चतुष्टयैः । मध्यमा च तदर्द्धेन वित्तशाठ्यं न कारयेत् ॥ चतुर्थांशेन धेन्वा वै वत्सन्तु परिकल्पयेत् । कर्त्तव्ये रुक्मशृङ्गे तु राजतक्षुरसंयुता ॥ गोरुधः पूर्ब्बवद्घ्राणमगुरुञ्चन्दनन्तथा । मुक्ताफलमया दन्ता घृतक्षौद्रमयं मुखम् ॥ प्रशस्तपत्रश्रवणा कांस्यदोहनकान्विता । इक्षुयष्टिमयाः पादाः क्षौमपुच्छसमन्विता ॥ नानाफलसमोपेता रत्नगर्भसमन्विता । पादुकोपानहौ छत्रे भाजनं तर्पणं तथा ॥ इत्येवं रचयित्वा तां कृत्वा दीपार्च्चनादिकम् । पुण्यकालञ्च संप्राप्य स्नातः शुक्लाम्बरो गृही । त्रिः प्रदक्षिणमावृत्य मन्त्रेणानेन कीर्त्तयेत् ॥ तव विप्र ! महाभाग ! वेदवेदाङ्गपारग ! । यामेताञ्च मया दत्तां गृह्णीष्व त्वं द्विजोत्तम ! । प्रीयतां मम देवेशो भगवान्मधुसूदनः ॥ त्वमेका लक्ष्मीर्गोविन्दे स्वाहा या च विभावसौ । शक्रे शचीति विख्याता मेधा मुनिषु सत्तम ! ॥ तस्मात् सर्व्वमयी देवी धान्यरूपेण संस्थिता । एवमुच्चार्य्य तां धेनुं ब्राह्मणाय निवेदयेत् ॥ दत्त्वा प्रदक्षिणं कृत्वा तं समाप्य द्विजोत्तमम् । यावच्च पृथिवी सर्व्वा वसुरत्नानि भूपते ! । तावत् पुण्यं समाधिक्यं व्रीहिधेनोश्च तत् फलम् ॥ तस्मान्नरेन्द्र ! दातव्या भुक्तिमुक्तिफलप्रदा । इह लोके च सौभाग्यमायुरारोग्यवर्द्धनम् ॥ विमानेनार्कवर्णेन किङ्किणीरत्नमालिना । स्तूयमानोऽप्सरोभिश्च प्रयाति शिवमन्दिरम् ॥ यावच्च स्मरते जन्म तावत् स्वर्गे महीयते । ततः स्वर्गात् परिभ्रष्टो जम्बुद्वीपपतिर्भवेत् ॥ एवं हरेण चोद्गीर्णं श्रुत्वा वाक्यं नरोत्तम । सर्व्वपापविशुद्धात्मा रुद्रलोके महीयते ॥” इति वराहपुराणम् ॥
