धान्यशैल
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धान्यशैल¦ पु॰ दानार्थकल्पिते धान्यमये पर्वते तद्विधानादिहेमा॰ दा॰ पद्मपु॰ उक्तं यथा।
“तस्माद्विधानं वक्ष्यामि पर्वतानामनुत्तमम्। प्रथमोधान्यशैलः स्यात् द्वितीयो लवणाचलः। गुडाचलस्तृती-यस्तु चतुर्थो हेमपर्वतः। पञ्चमस्तिलशैलः स्यात् षष्ठःकार्पासपर्वतः। सप्तमो घृतशैलश्च रत्नशैलस्तथाऽष्टमः। [Page3882-a+ 38] राजतो नवमस्तद्वद्दशमः शर्कराचलः। वक्ष्ये विधानमेतेषां यथावदनुपूर्वशः। अयने विषुवे चैव व्यतीपातेदिनक्षये। शुक्लपक्षे तृतीयायामुपरागे शशिक्षये!विवाहोत्सवयज्ञे वा द्वादश्यामथ वा पुनः। शुक्लायां पञ्च-दश्यां वा पुण्यर्क्षे च विधानतः। धान्यशैलादयो देयायथाश्रद्धं विधानतः। तीर्थे वायतने वापि गोष्ठेवापि भवाङ्गणे। मण्डपं कारयेद्भक्त्या चतुरस्रमुदङ्-मुखम्। प्रागुदक्प्रवणं तद्वत्प्राङ्मुखं वा विधानतः”। मण्डपलक्षणन्तु, परिभाषायां प्रतिपादितम्। अत्रचायं विधानक्रमः दानदिवसात् पूर्वेद्युः पूर्वाह्णे कृतस्नानादिक्रियो यजमानः अमुकपर्वतदानमहं श्वःकरिष्ये इति कृतसंकल्पो वृद्धिश्राद्धमाभ्युदयकं विधायपूर्ववत् पुण्याहवाचनं कुर्य्यात्, तदनन्तरम् अद्य अमुक-स्पिन् देशे अमुकस्मिन् काले अमुकपर्वतदानेनाहं यक्ष्येतत्र तदङ्गभूतहोमादिके अमुकशर्माणं अमुकवेदाध्या-यिनम् ऋत्विजं त्वामहं दृणे इति। पुराणवेदविदाञ्चतु-र्णामृत्विजां वरणं, तथा ओम् अद्य अमुकस्मिन् देशेअमुकस्मिन् काले अमुकपर्वतदानेनाहं यक्ष्ये तत्र तद-ङ्गभूतानि कर्माणि कर्तुं कारयितुं च अमुकगोत्रंअमुकशर्माणं अमुकवेदाध्यायिनं गुरुं त्वामहं वृणेइत्याचार्यं वृणुयात् घृतोऽस्मीति सर्वत्र प्रतिवचनं तत्रतावत् मधुपर्केणार्च्चयेदितिसर्वपर्वतदानसाधारणोऽयंविधिः।
“गोमयेनोपलिप्तायां भूमावास्तीर्य्य वै कुशान्। तन्मध्ये पर्वतं कुर्यात् विष्कम्भपर्वतान्वितम्। धान्य-द्रोणसहस्रेण भवेद्गिरिरिहोत्तमः। भध्यमः पञ्चश-तिकः कनिष्ठः स्यात् त्रिभिः शतैः”। द्रोणलक्षणमुक्तंपरिभाषायाम्। प्रमाणस्थकरचरणस्य पुंसो द्वादशभिःप्रसृतिभिः कुडवो भवति अनेन कुडवेन चतुगुर्णोत्तरंप्रस्थाढकद्रोणा भवन्ति अतः चतुःषष्ट्या कुडवैर्द्रोणोभवतीति कल्पतरुणा व्याख्यातम्।
“मेरुर्महाब्री-हिमयस्तु मध्ये सुवर्णवृक्षत्रयमंयुतः स्यात्। पूर्वेणमुक्ताफलवज्रयुक्तो याम्येन गोमेदकपुष्परागैः। पश्चाच्चगारुत्मतनीलरत्नैः सौम्येन वैदूर्यसरोजरागैः। श्रीखण्ड-खण्डैरभितः प्रवाललतान्वितः शुक्तिशिलातलः स्यात्। ब्रह्माऽथ विष्णुर्भगवान् पुरारिर्दिवाकरोऽप्यत्र हिर-ण्मयः स्यात्। मूर्द्धव्यवस्था गतमत्सरेण कार्याः सुवर्णेनतथा द्विजौघाः। चत्वारि शृङ्गाणि च राजतानि नित-म्बभागेष्वपि राजतः स्यात्। आर्द्रेक्षुवंशावृतकन्दरस्तु[Page3882-b+ 38] घृतोदकः प्रस्रवणश्च दिक्षु। शुक्लाम्बराण्यम्बुधरावलीस्यात् पूर्वेण पीतानि च दक्षिणेन। वासांसि पश्चादथकर्वुराणि रक्तानि चैबोत्तरतोघनाली। रौप्यान्महेन्द्र-प्रमुखानथाष्टौ संस्थाप्य लोकाधिपतीन् क्रमेण। नाना-फलाली च समन्ततः स्यात् मनोरमं माल्यविलेपनंच। वितानकं चोपरि पञ्चवर्णमम्लानपुष्पाभरणंसितञ्च”। मेरुरित्यादि, महाव्रीहयो, राजान्नशालयः,वृक्षत्रयसंयुत, इति दक्षिणे मन्दारः, उत्तरे पारिजातो,मध्ये कल्पतरुरिति वृक्षत्रयं, तथा पूर्वतो हरिचन्दनं,पश्चिमे सन्तान इति तरुद्वयं च कुर्यात्, एते सर्वपर्वतेषुकर्त्तव्या इति शर्कराचले वक्ष्यमाणत्वात् सर्वेषाञ्च पञ्च-शाखत्वमवधेयमिति। वज्रं, हीरकं। गारुत्मतं, मर-कतं। सरोजरागः, पद्मरागः। मुक्ताफलादोनि चयथादिशं वक्ष्यमाणराजतशृङ्गेषु निवेशनीयानि। पुरारिः, महेश्वरः। ब्रह्मादिलक्षणमुक्तं ब्रह्माण्डदाने। मूर्द्धव्यवस्था उपरिदेशस्थिताः। गतमत्सरेण, वित्तशा-ठ्यरहितेन। द्विजौघाः, पक्षिसमूहाः। दिवीशा इतिक्वचित्पाठः। तत्र आदित्यावसवोरुद्रा दिवीशाः। तेषु,वस्वादिलक्षणमुक्तं ब्रह्माण्डदाने, रुद्रलक्षणं विश्वचक्रे। इक्षुरेव वंशः, घृतमेवोदकं, वस्त्राण्येव मेघसमूहाःकर्वुराणि, चित्राणि। लोकपाललक्षणमुक्तं ब्रह्माण्ड-दाने।
“इत्थंनिवेश्यामरशैलमग्र्यं मेरोश्च विष्कम्भगि-रीन् क्रमेण। तुरीयभागेण चतुर्द्दिशन्तु संस्थापयेत्पुष्पविलेपनाट्यान्। पूर्वेण मन्दरमनेककलैश्च युक्तंयुक्तं गणैः कनकभद्रकदम्बचिह्नम्। कामेन काञ्चनम-येन विराजमानमाकारयेत् कुसुमवस्त्रविलेपनाढ्यम्। क्षीरारुणोदसरसाऽथ वनेन चैव रौप्येण शक्तिघटितेनविराजमानम्। याम्येन गन्धमदनश्च निवेशनीयोगोधूमसञ्चयमयः कलधौतजम्बा। हैमेन यक्षपतिनाघृतमानसेन वस्त्रैश्च राजतवनेन च संयुतः स्यात्। पश्चात्तिलाचलमनेकसुगन्धिपुष्पसौवर्ण पिप्पल-हिरण्मय-हंसयुक्तम्। आकारयेद्रजतपुष्पवनेन तद्वद्वस्वन्वितं दधि-सितोदसरस्तथाग्रे। संस्थाप्य तं विपुलशैलमथोत्तरेणशैलं सुपार्श्वमपि माषमयं सवस्त्रम्। पुष्पैश्च हेमवटपाद-पशेखरन्तमाकारयेत्कनकधेनुविराजमानम्। माक्षीकरद्र-सरसा च वनेन तद्वद्रौप्येण भास्करवता च युतं विधाय”। इत्थन्निवेश्येत्यादि, एवं मेरुं निवेश्य तच्चतुर्थभागपरि-मेतेन पृथग्द्रव्येण एकैकं विष्कम्भगिरिं कुर्यात् न तु[Page3883-a+ 38] चगुर्थभागेन चतुरोऽपीति, तथाच लवणाचले वक्ष्यति
“चतुर्थांशेन विष्कम्भपर्वतान् कारयेत्, पृथगिति”। पूर्वेणमन्दरमिति, सन्निधानान्मन्दरोऽपि व्रीहिमय एव,गणैर्युक्तमिति, पुरुषाकृतिगणत्रयान्वितमित्यर्थः। अने-कफलालीयुक्तं यवैरिति क्वचित्पाठः। तस्य समूलत्वेयवानुष्ठानमपि कार्यम्। कनकघटितेन भद्रकदम्बाख्येनवृक्षेण लक्षितम्। कामलक्षणमाह विश्वकर्मा
“चाप-वाणधरः कामो रतिप्रेयान् सुमध्यमः। आलीढोनन्दनी वाजी चापवान् विश्वमादकः” इति। क्षीरपूरि-तेन, अरुणोदसंज्ञितेन रूप्यघटितेन, सरसा वनेनापिरूप्यघटितेन विराजमानमिति सम्बन्धः। याम्येने-त्यादि, गन्धमदनो, गन्धमादनः, कलधौतजं येति,सुवर्णजम्बुवृक्षेण। यक्षपतिरूपमुक्तं श्रीप्रश्ने
“ह्रस्व-मापिङ्गाक्षञ्च गदिनं पीतविग्रहम्। पुष्पकस्थन्धनाध्यक्षंध्यायेत् शिवसखं सदेति”। घृतमानसेनेति घृतपूरितेनमानसाभिधानेन राजतेन सरसा। पश्चादिति, पश्चिम-देशे दधिपूरितसितोदं नाम रजतनिर्मितं सर इति,विपुलशैलं, विपुलं नाम पर्वतं माक्षीकभद्रसरसेति, मा-क्षीकं, मधु तत्पूरितेन रजतमयेन भद्राभिधानेन सरसायुतमित्यर्थः। अत्र च कामदेवस्य प्रत्यङ्मुखत्वं हंसस्यप्राङ्मुखत्वं कनकधेनोर्दक्षिणामुखत्वं यक्षपतेरुदङ्मुखत्वंच शर्कराचलस्थितदिग्विशेषापेक्ष्यं दैवतेषु सर्वशैलेषुवेदितव्यं, चरमव्यवस्था कुतोऽपि शास्त्राद्व्यवस्थितिरिति। एते च कामदेवादयः कदम्बादीनां निजपर्वतवृक्षाणामध-स्तात्कर्त्तव्याः।
“होमैश्चतुर्भिरथ वेदपुराणविद्भिर्दान्तै-रनिन्द्यचरिताकृतिभिर्द्विजेन्द्रैः। पूर्वेण हस्तमितमत्रविधाय कुण्डं कार्यस्तिलैर्यवघृतेन समित्कुशैश्च। रात्रौ चजागरमनुद्धतगीततूर्यैरावाहनञ्च कथयामि शिलोच्चया-नाम्”। पूर्वेणेत्यादि मण्डपस्य पूर्वभागे हस्तमात्रं कुण्डंविधाय तस्य पूर्वोत्तरदिग्विमागे तुलापुरुषोक्तलक्षणांदेवतावेदिं कृत्वा तत्र विनायकादिदेवताभ्यः पूर्बवत् पूजांविदध्यात् अनन्तरमृत्विजाऽग्निस्थापनान्ते ग्रहाणांलोकपालानामित्यादिवक्ष्यमाण देवताभ्यस्तत्तल्लिङ्गमन्त्रै-स्तिलादिद्रव्येण होमं कुर्युः।
“सहस्रे त्वथ होतव्येकुर्यात् कुण्डं करात्मकम्” इत्युक्तेरत्र हस्तपरिमितकुण्डो-पदेशादाहुतिसहस्रं होतव्यमिति दानविवेककारः। अत्रविनायकादयो द्वात्रिं शद्देवा, द्वादशादित्याः, एकादश-रुद्राः, दश लोकपालाः, अष्टौ वसवः, ब्रह्म--विष्णु--शिव-[Page3883-b+ 38] सूर्याश्चत्वारः काम धनद--हंस--कामधेनव श्चत्वारः इत्येव-मेकाशीतिसंख्यकेभ्यो देवेभ्यः ग्रहादीनां प्रतिदैवतं त्रयो-दशाहुतिहोमे त्रिपञ्चाशदधिकमाहुतिसहस्रं सम्पद्यते। अष्टशतन्तु होतव्यमिति ब्रह्माण्डपुराणे वक्ष्यति। तिला-दीनि चत्वार्येव हविर्द्रव्याणि घृताक्तानीत्यवगन्तव्यम्। समिधः, साधारण्यादुदुम्बरस्य। होमादनन्तरं पुष्पोपहारा-नादाय वक्ष्यमाणमन्त्रैर्यथाक्रमं पर्वतानावाहयेत्, तत्रमेरोरावाहनमन्त्रः।
“त्वं सर्वदेवगणधामनिधे! विरुद्ध-मस्मद्गृहेऽप्यमरपर्वत! नाशयाशु। क्षेमं विधत्स्व कुरु-शान्तिमनुत्तमां नः सम्पूजितः परमभक्तिमता मया हि। त्वमेव भगवानीशो ब्रह्मा विष्णुर्द्दिवाकरः। मूर्त्तामूर्त्तपरंवीजमतः पाहि सनातनः। यस्मात्त्वं लोकपालानांविश्वमूर्त्तेश्च मन्दिरम्। रुद्रादित्यवसूनाञ्च तस्माच्छान्तिंप्रयच्छ मे। यस्मादशून्यममरैर्नारीभिश्च समं तथा। तस्मान्मामुद्धराशेषदुःखसंसारसागरात्। एवमभ्यर्च्य तं मेरुंमन्दरञ्चाभिपूजयेत्। अथ मन्दरस्य। यस्माच्चैत्ररथेन त्वंभद्राश्ववर्षकेण च। शोभसे मन्दर! क्षिप्रमतः पुष्टिकरोभव। अथ गन्धमादनस्य। यस्माच्चूडामणिर्जम्बुद्वीपे त्वंगन्धमादन!। गन्धर्ववनशोभावानतः कीर्त्तिर्दृढास्तु मे। अथ विपुलपर्वतस्य। यस्मात्त्वं केतुमालेन वैभ्राजेन वनेनच। हिरण्मयाश्वत्थशिखस्तस्मात् पुष्टिर्ध्रुवास्तु मे। अथ सुपार्श्वस्य। उत्तरैः कुरुभिर्यस्मात् सावित्रेण वनेनच। सुपार्श्व! राजसे नित्यमतः श्रीरक्षयास्तु मे। एवमामन्त्र्य तान् सर्वान् प्रभाते विमले पुनः। स्नात्वाथगुरवे दद्यात् मध्यमं पर्वतोत्तमम्। विष्कम्भपर्वतान्दद्यादृत्विग्भ्यः क्रमशो नृप। गावोदद्याच्चतुर्विंशादथवा दश पार्थिव!। शक्तितः सप्त वाष्टौ वा पञ्च दद्या-दशक्तिमान्। एकां वा गुरवे दद्यात् कपिलाञ्च पय-स्विनीम्”। एवमामन्त्र्येति, दानदिनात् पूर्वदिवसे सर्व-मिदमामन्त्रणादि विधाय गीतवादित्रादिभिर्निशामति-बाह्य ततः प्रभाते गुरुप्रभृतयो विहितस्नानादिक्रियाःपूर्णाहुतिपर्यन्तं सकलकर्म्मशेषं समाप्य कुण्डसमीप-स्थापितकलसजलेन पूर्ववद्यजमानं स्नपयेयुः। यजमा-नोऽपि शुक्लाम्बरपरिधानः प्रदक्षिणीकृत्य वक्ष्यमाणम-न्त्रेण यथाक्रमं पर्वतान् प्रतिपादयेत्।
“पर्वतानामशेषाणामेष एव विधिः स्मृतः। त एव पूजनेमन्त्रास्त एवोपस्कराः स्मृताः। ग्रहाणां लोकपालानांब्रह्मादीनाञ्च सर्वशः। स्वमन्त्रेणैव सर्वेषु होमः
५ -[Page3884-a+ 38] लेषु पठ्यते। उपवासो भवेन्नित्यमशक्तौ नक्तमिष्यते” सर्वत्राक्षारलवणमश्नीयादिति वक्ष्यमाणत्वादक्षारल-वणं नक्तं वेदितव्यम्”
“विधानं सर्वशैलानां क्रमशः शृणुपार्थिव! दानकालेषु ये मन्त्रा पर्वतेषु च यत्फलम्” अथ मन्त्रः
“अन्नं ब्रह्म यतः प्रोक्तमन्ने प्राणाः प्रति-ष्ठिताः। अन्नाद्भवन्ति भूतानि जगदन्नेन वर्त्तते। अन्न-मेव यतोलक्ष्मीरन्नमेव जनार्दनः। धान्यपर्वतरूपेणपाहि तस्मान्नमोनमः”। एवमाचार्यादीन्, सम्पूज्य तद-नुज्ञया अन्येभ्योऽपि दद्यात् ततोयजमानो वेद्यांपूर्ववद्देवताः सम्पूज्य नमस्कुर्यात्। गुरुस्तान्विसर्जयेत्,ततो
“यथाशक्ति ब्राह्मणभोजनम् कृतोपवासस्य यज-मानस्य दानदिने क्षारलवणवर्जनं सर्वपर्वतोपस्करा-णाञ्च ब्राह्मणगृहप्रापणं शर्कराचलोक्तं सर्वत्र द्रष्ट-व्यम्।
“अनेन विधिना यस्तु दद्याद्धान्यमयङ्गिरिम्। मन्वन्तरशतं सार्द्धं देवलोके महीयते। अप्सरोगण-गन्धर्वैराकीर्णेन विराजितः। विमानेन दिवः पृष्ठ-मायाति सुरसेवितः। कर्मक्षयाद्राजराज्यं प्राप्नोतीहन संशयः”। इत्थमेव मत्स्यपु॰। धान्यपर्वतादयोऽप्यत्र। ब्रह्माण्डभविष्यपुराणोक्तो विधिश्च ततःपरं तत्र दृश्यः।
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--a king of मेरुदान to be given away as gift. M. ८३. 4 and १२-13; ९२. ३२.
