धान्याचलः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धान्याचलः, पुं, (धान्यनिर्म्मितोऽचलः पर्व्वतः ।) दानार्थधान्यनिर्म्मितपर्व्वतः । तस्य विधानं यथा, -- “प्रथमो धान्यशैलः स्याद्द्वितीयो लवणाचलः । गुडाचलस्तृतीयस्तु चतुर्थो हेमपर्व्वतः ॥ पञ्चमस्तिलशैलः स्यात् षष्ठः कार्पासपर्व्वतः । सप्तमो घृतशैलश्च रत्नशैलस्तथाष्टमः ॥ राजतो नवमस्तद्बद्दशमः शर्कराचलः । वक्ष्ये विधानमेतेषां यथावदनुपूर्ब्बशः ॥ अयने विषुवे पुण्ये व्यतीपाते दिनक्षये । शुक्लपक्षे तृतीयायामुपरागे शशिक्षये ॥ विवाहोत्सवयज्ञेषु द्वादश्यामथवा पुनः । शुक्लायां पञ्चदश्यां वा पुण्यर्क्षे वा विधानतः ॥ ततः कर्म्मक्षये राज्यमाप्नोतीह न संशयः ॥” इति मत्स्यपुराणम् ॥
