सामग्री पर जाएँ

धान्याम्लम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धान्याम्लम्, क्ली, (धान्यात् धान्यविकारात् जातं अम्लम् ।) काञ्जिकम् । इत्यमरः । २ । ९ । ३९ ॥ “धान्याम्लं शालिचूर्णानां कोद्रवादिकृतं भवेत् । धान्याम्लं धान्ययोनित्वात् प्रीणनं लघु दीपनम् ॥ अरुचौ वातरोगेषु सर्व्वेष्वास्थापने हितम् ॥” इति भावप्रकाशः ॥ (“धान्याम्लं भेदि तीक्ष्णोष्णं पित्तकृत् स्पर्श- शीतलम् । भ्रमक्लमहरं रुच्यं दीपनं वस्तिशूलनुत् । शस्तमास्थापने हृद्यं लघुवातकफापहम् ॥” इति वाभटे सूत्रस्थाने पञ्चमेऽध्याये ॥)

"https://sa.wiktionary.org/w/index.php?title=धान्याम्लम्&oldid=142603" इत्यस्माद् प्रतिप्राप्तम्