सामग्री पर जाएँ

धामार्गवः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धामार्गवः पुं, (धाम्नो मार्गं पन्थानं वातीति । वा गतौ + कः ।) अपामार्गः । इत्यमरः । २ । ४ । ८८ ॥ (रक्तापामार्गोऽयम् । अस्य पर्य्यायो यथा, -- “रक्तोऽन्यो वसिरो वृत्तफलो धामार्गवोऽपि च । प्रत्यक्पर्णी केशपर्णी कथिता कपिपिप्पली ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) घोषकः । इति मेदिनी । वे, ५९ ॥ (अस्य पर्य्यायो यथा, -- “महाकोषातकी प्रोक्ता हस्तिघोषा महाफला । धामार्गवो घोषकश्च हस्तिपर्णश्च स स्मृतः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) पीतघोषा । इति रत्नमाला ॥

"https://sa.wiktionary.org/w/index.php?title=धामार्गवः&oldid=142615" इत्यस्माद् प्रतिप्राप्तम्