धारकः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धारकः, पुं, (धरति जलादिकमिति । धृ + ण्वुल् ।) कलसः । तस्योत्पत्त्यादि यथा, -- ब्रह्मोवाच । “उत्पत्तिं लक्षणं मानं कथयामि महामुने ! । धारकाः कलसाश्चैव येन लोके प्रकीर्त्तिताः ॥ अमृते मथ्यमाने तु सर्व्वदेवैः सदानवैः । मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ॥ उत्पन्नममृतं तत्र महावीर्य्यपराक्रमम् । तस्यायं धारणार्थाय कलसः परिकीर्त्त्रितः ॥ एकैकान्तु कलां मूर्त्तौ क्षित्यादीनां यथाक्रमम् । संहृत्य संस्थिता यस्मात्तेन ते कलसाः स्मृताः ॥ हैमराजतताम्रा वा मृण्मया लक्षणान्विताः । पञ्चमाङ्गुलवैपुल्यमुत्सेधः षोडशाङ्गुलः ॥ कलसानां प्रमाणन्तु मुखमष्टाङ्गुलं भवेत् ॥” इति देवीपुराणम् ॥ धारणकर्त्तरि, त्रि ॥ (यथा, पञ्चतन्त्रे । २ । १७५ । “अप्रियाण्यपि पथ्यानि ये वदन्ति नृणामिह । त एव सुहृदः प्रोक्ता अन्ये स्युर्नामधारकाः ॥”)
