धारणम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धारणम्, क्ली, (धृ + णिच् + भावे ल्युट् ।) विधा- रणम् । इति मेदिनी । णे, ५६ ॥ धरण इति भाषा ॥ (यथा, सुश्रुते । १ । ४६ । “तैक्ष्ण्याच्च निर्हरेदाशु कफं गण्डूषधारणात् ॥” पुं, कश्यपपुत्त्रो नागविशेषः । यथा, महा- भारते । ५ । १०३ । १६ । “विरजा धारणश्चैव सुबाहुर्मुखरो जयः ॥” धारयतीति । धृ + णिच् + ल्युः । धारके, त्रि । यथा, महाभारते । १२ । ३३५ । ५४ । “जग्मुर्यथेप्सितं देशं तपसे कृतनिश्चयाः । धारणाः सर्व्वलोकानां सर्व्वधर्म्मप्रवर्त्तकाः ॥”)
