धारणीययन्त्र
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धारणीययन्त्र¦ न॰ धार्य्यते धारि--कर्मणि अनीयर् कर्म॰। धार्य्ये देवताभेदानां यन्त्रभेदे तच्च पूजायन्त्राद्विलक्षणंसारदायां
२४ पटले दृश्यम्। तल्लेखनद्रव्यादि तत्रोक्तंयथा
“काश्मीररोचना{??}क्षामृगेभमदचन्दनैः। विलि-खेद्धेमलेखन्या यन्त्राण्येतानि देशिकः”। निषिद्धयन्त्रमुक्तम्
“भूमिस्पृष्टं शवस्पृष्टं दग्धं निर्माल्यसङ्गतम्। विशीर्णंलङ्घितं मन्त्री यन्त्रं जातु न धारयेत्” मन्त्रमहीदधौ
१९ तरङ्गे। तल्लेखनप्रकारद्रव्यादिकमुक्तं तत्रैव दृश्यम्। विस्तरभयात् न लिखितं कर्मभेदे सामान्यतोलेखनद्र-व्यादिकं
२५ तरङ्गे तत्रोक्तं यथा
“चन्दनं राचना रात्रि-र्गृहधूमश्चिताभवः। अङ्गारोऽष्टविषाणीति शान्त्यादौयन्त्रलेखने। पूर्वोक्तलेखनद्रव्यं गृह्णीयात्तदपि ध्रुवम्। [Page3888-a+ 38] पिप्पलं मरिचं शुण्ठी श्येनविष्ठाथ चित्रकः। गृहधूमोन्मत्तरसौ लवणञ्च विषाष्टकम्। शान्तौ वश्येलिखेद्भूर्जे स्तम्भने द्वीपिचर्मणि। खरचर्मणि विद्वेषेउच्चाटे ध्वजवाससि। नरास्थनि लिखेद्यन्त्रं मारणमन्त्रवित्तमः। ये त्वाधाराः स्मृता यन्त्रतरङ्गे तेऽपिसम्मताः”।
