सामग्री पर जाएँ

धारम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धारम्, क्ली, (धाराया इदम् । धारा + “तस्येदम् ।” ४ । ३ । १२० । इत्यण् ।) वर्षोद्भवं जलम् । तद्द्विविधम् । गाङ्गम् १ सामुद्रञ्च २ । यथा, -- “यदा स्यादाश्विने मासि सूर्य्यः स्वातीविशाखयोः । तदाम्बु जलदैर्मुक्तं गाङ्गमुक्तं मनीषिभिः ॥ अन्यदा मृगशीर्षादिनक्षत्रेषु यदम्बुदैः । अभिवृष्टमिदं तोयं सामुद्रमिति संज्ञितम् ॥” तयोर्गुणाः । यथा, -- “गाङ्गं जलं स्वादु सुशीतलञ्च रुचिप्रदं पित्तकफापहञ्च । निर्दोषमिष्टं लघु तच्च नित्यं गुणाधिकं व्योम्नि गृहीतमाहुः ॥ सामुद्रसलिलं शीतं कफवातकरं गुरु । चित्रायामाश्विने तच्च गुणाढ्यं गाङ्गवद्भवेत् ॥ पतितं भुवि तत्तोयं गाङ्गं सामुद्रमेव वा । स्वस्वाश्रयवशाद्गच्छेदन्यदन्यद्रसादिकम् ॥ इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=धारम्&oldid=142624" इत्यस्माद् प्रतिप्राप्तम्