धाराधरः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धाराधरः, पुं, (धरतीति । धृ + अच् । धाराया धरः ।) मेधः । (यथा, उत्तरचातकाष्टके । ४ । “रे धाराधर ! धीरनीरनिकरैरेषा रसा नीरसा शेषा पूषकरोत्करैरतिखरैरापूरि भूरि त्वया । एकान्तेन भवन्तमन्तरगतं स्वान्तेन सञ्चिन्तयन् आश्चर्य्यं परिपीडितोऽभिरमते यच्चातक- स्तृष्णया ॥” खडगः । इति मेदिनी । रे, २६९ ॥
