सामग्री पर जाएँ

धार्त्तराष्ट्रः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धार्त्तराष्ट्रः, पुं, कृष्णवर्णचञ्चुचरणयुक्तहंसः । गेडि हा~स इति भाषा ॥ इत्यमरः । २ । ५ । २४ ॥ (यथा, वेणीसंहारे १ अङ्के सूत्रधारस्य शर- द्वर्णनायाम् । “सत्पक्षा मधुरगिरः प्रसाधिताशा मदोद्धता- रम्भाः । निपतन्ति धार्त्तराष्ट्राः कालवशान्मेदिनीपृष्ठे ॥”) सर्पविशेषः । धृतराष्ट्रपुत्त्रः । इति मेदिनी । रे, २७० ॥ (यथा, वेणीसंहारे १ अङ्के । “लाक्षागृहानलविषान्नसभाप्रवेशैः प्राणेषु वित्तनिवहेषु च नः प्रहृत्य । आकृष्टपाण्डवबधूपरिधानकेशाः स्वस्था भवन्ति मयि जीवति धार्त्तराष्ट्राः ॥”)

"https://sa.wiktionary.org/w/index.php?title=धार्त्तराष्ट्रः&oldid=142662" इत्यस्माद् प्रतिप्राप्तम्