धार्य्य
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धार्य्यम्, त्रि, (ध्रियते इति । धृ + ण्यत् ।) धारणी- यम् । यथा, -- “धातानुराधवसुपुष्यविशाखहस्ता- चित्रोत्तराश्विपवनादितिरेवतीषु । जन्मर्क्षजीवबुधशुक्रदिनोत्सवादौ धार्य्यं नवं वसनमीश्वरविप्रतुष्टौ ॥” इति समयप्रदीपः ॥ (ध्रियते परिधीयते इति । वस्त्रे, क्ली । यथा, भागवते । ९ । १८ । १४ । “वयं तत्रापि भृगवः शिष्योऽस्या नः पितासुरः । अस्मद्धार्य्यं धृतवती शूद्रो वेदमिवासती ॥”)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धार्य्य¦ त्रि॰ धारि--ण्यत्। धारणीये
“धार्य्यः कथङ्कारमहंभवत्या वियद्विहारी वसुधैकगत्या” नैष॰।
“कार्य्यञ्चतस्य दशधा हार्य्यं धार्य्यं प्रकाश्यञ्च” सा॰ का॰
“एवंधार्य्यम् अप्यन्तःकरणादित्रिकस्य प्राणादिलक्षणयावृत्त्या शरीरं तच्च पार्थिवादि पाञ्चभौतिकं शब्दादीनांपञ्चानां समूहः पृथिवीति ते च पञ्च दिव्यादिव्यतयादशेति धार्य्यमपि दशधा” सा॰ कौ॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धार्य्य¦ mfn. (-र्य्यः-र्य्य-र्य्यं)
1. To be born or upheld, to be contained. &c.
2. To be kept or detained. E. धृ to hold, ण्यत् aff.