धावकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धावकः, त्रि, (धावति शीघ्रं गच्छतीति । धाव + ण्वुल् ।) धावनकर्त्ता । शीघ्रगमनकर्त्ता । धाउ- डिया इति भाषा । धावधातोर्णकप्रत्ययेन निष्पन्नः ॥ (यथा, गोः रामायणे । २ । ३२ । २२ । “संवाहकाः सलिलदाः पुरतो धावकाश्च ये । तेषां निष्कसहसं त्वं वृत्त्यर्थमुपकल्पय ॥”)
