धावनिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धावनिः, स्त्री, (धाव + बाहुलकात् अनिः ।) पृश्नि- पर्णी । इत्यमरः । २ । ४ । ९३ ॥ (पर्य्यायोऽस्या यथा, “पृश्निपर्णी पृथक्पर्णी चित्रपर्ण्यहिपर्ण्यपि । क्रोष्टुविन्ना सिंहपुच्छी कलशी धावनिर्गुहा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ कण्टकारी । इति राजनिर्घण्टः ॥)
