सामग्री पर जाएँ

धिक्कृतः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धिक्कृतः, त्रि, (धिक् + कृ + कर्म्मणि क्तः ।) निर्भर्तसितः । असत्करणादिना धिगित्यस्य करणं धिक्कारो निन्दा धिगितः धिक्कृतः धिक् त्वां इति भर्त्सितो धिक्कृत इति यावत् । इति भरतः ॥ तत्पर्य्यायः । अपध्वस्तः २ । इति प्राणिवर्गे अमरः । ३ । १ । ३९ ॥ (यथा, भागवते । ७ । ८ । ५३ । “वयं किम्पुरुषास्त्वन्तु महापुरुष ईश्वरः । अयं कुपुरुषो नष्टो धिक्कृतः साधुभिः सदा ॥”) निन्दितमात्रम् । कृतधिक्कारस्य प्राणिवर्गोक्तस्य पर्य्यायान्तरमिदम् अप्राणिविषयार्थम् । धिगस्तु त्वां इति कृतः शब्दितो धिक्कृतः । इति भरतः ॥ तत्पर्य्यायः । अवरीणः २ । इति विशेष्यनिघ्नवर्गे अमरः । ३ । १ । ९४ ॥

"https://sa.wiktionary.org/w/index.php?title=धिक्कृतः&oldid=142686" इत्यस्माद् प्रतिप्राप्तम्