धीरः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धीरः, पुं, (धियं राति ददाति गृह्णातीति वा । रा + कः ।) ऋषभौषधिः । इति राजनिर्घण्टः ॥ वलिराजः । इति शब्दरत्नावली ॥
धीरः, त्रि, (धियं ईरयतीति । ईर + अण् । यद्बा, धियं रातीति । रा + कः ।) धैर्य्यान्वितः । स्वेरः । पण्डितः । इति मेदिनी । रे, ५१ ॥ (यथा, भागवते । ३ । ६ । ४५ । “तथापरे चात्मसमाधियोग- बलेन जित्वा प्रकृतिं बलिष्ठाम् । त्वामेव धीराः पुरुषं विशन्ति तेषां श्रमः स्यान्न तु सेवया ते ॥” बलयुतः । इति शब्दरत्नावली ॥ मन्दः । इति त्रिकाण्डशेषः ॥ (यथा, -- “देहे समीहे भवतो विधातुं धीरं समीरं नलिनीदलेन ॥” इति रसमञ्जर्य्याम् ।) विनीतः । इति संक्षिप्तसारोणादिवृत्तिः ॥ (गम्भीरः । यथा, रघुः । ३ । ४४ । “अवोचदेनं गगनस्पृशा रघुः स्वरेण धीरेण निवर्त्तयन्निव ॥”)
