धीराधीरा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धीराधीरा, स्त्री, (धीरा अधीरा च ।) मानाव- स्थायां मध्याप्रगल्भा नायिकाभेदः । अस्या लक्षणम् । व्यङ्ग्याव्यङ्ग्यकोपप्रकाशा । मध्याया धीराधीरायाः कोपव्यञ्जिके वचनरुदिते । प्रौढाधीराधीराया रतावौदास्यं तर्ज्जनताड- नादि च कोपस्य प्रकाशकम् । सा द्विविधा । ज्येष्ठा कनिष्ठा च । मध्याधीराधीरा यथा, -- “कान्तानुरागचतुरोऽसि मनोहरोऽसि नाथोऽसि किञ्च नवयौवनभूषितोऽसि । इत्थं निगद्य सुदृशा वदने प्रियस्य निःश्वस्य वास्पलुलिता निहिता दृगन्ताः ॥ प्रौढाधीराधीरा यथा, -- “तल्पोपान्तमुपेयुषि प्रियतमे साचीकृतग्रीवया काकुव्याकुलवाचिसाचिहसितस्फुर्जत्कपोल- श्रिया । हस्तन्यस्तकरे पुनर्मृगदृशा लाक्षारसक्षालित- प्रौष्ठी प्रेष्ठमयूखमांसलरुचो विस्फारिता दृष्टयः ॥” इति रसमञ्जरी ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धीराधीरा¦ स्त्री
“धीराधीरा (मध्या) तु रुदितैरधीरापरुषोक्तिभिः”
“धीराधीरा (प्रगलभा) तु सोल्लु-ण्ठमाषितैः खेदयेदमुम्” सा॰ द॰ उक्ते नायिकाभेदेअमुं नायकम् यथा
“अनलङ्कृतोऽपि सुन्दर! हरसिमनो मे यतः प्रसमम्। किं पुनरलङ्कृतस्त्वं संप्रतिनखरक्षतैस्तस्याः”।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धीराधीरा¦ f. (-रा) A mistress or wife, who having cause for jealousy, pursues a middle conduct between the suppression and expression of resentment. E. धीरा and अधीरा joined.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धीराधीरा/ धीरा f. a jealous woman who alternately expresses and suppresses her jealousy Sa1h.