धुन्धुमार
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धुन्धुमारः, पुं, (धुन्धुं तन्नामकं राक्षसं मारय- तीति । मारि + अण् ।) कुवलयाश्वराजः । स तु बृहदश्वपुत्त्रः । इति पद्मपुराणम् ॥ (अस्य धन्धुमारणकथा यथा, हरिवंशे । ११ । ३९ -- ५५ । “स एवमुक्तो राजर्षिरुतङ्केन महात्मना । कुवलाश्वं सुतं प्रादात् तस्मै धुन्धुनिवारणे ॥ बृहदश्व उवाच । भगवन् ! न्यस्तशस्त्रोऽहमयन्तु तनयो मम । भविष्यति द्विजश्रेष्ठ ! धुन्धुमारो न संशयः ॥ स तं व्यादिश्य तनयं राजर्षिर्धुन्धुमारणे । जगाम पर्व्वतायैव तपसे संशितव्रतः ॥ कुवलाश्वस्तु पुत्त्राणां शतेन सह पार्थिव ! । प्रायादुतङ्कसहितो धुन्धोस्तस्य परिग्रहे ॥ तमाविशचदा विष्णुर्भगवांस्तेजसा विभुः । उतङ्कस्य नियोगाद्वै लोकानां हितकाम्यया ॥ तस्मिन प्रयाते दुर्द्धर्षे दिवि शब्दो महानभूत् । एष श्रीमान्नृपसुतो धुन्धुमारो भविष्यति ॥ दिव्यैर्म्माल्यैश्च तं देवाः समन्तात् समवाकिरन् । देवदुन्दुभयश्चापि प्रणेदुर्भरतर्षभ ! ॥ स गत्वा जयतां श्रेष्ठस्तनयैः सह वीर्य्यवान् । समुद्रं खानयामास बालुकार्णवमव्ययम् ॥ नारायणेन कौरव्य ! तेजसाप्यायितः स वै । बभूव सुमहातेजा भूयो बलसमन्वितः ॥ तस्य पुत्त्रैः खनद्भिस्तु बालुकान्तर्हितस्तदा । धुन्धुरासादितो राजन् ! दिशमाश्रित्य पश्चिमाम् ॥ मुखजेनाग्निना क्रोधाल्लोकानुद्वर्त्तयन्निव । वारि सुस्राव वेगेन महोदधिरिवोदये ॥ सोमस्य भरतश्रेष्ठ ! धारोर्म्मिकलिलं महत् । तस्य पुत्त्रशतं दग्धं त्रिभिरूणन्तु रक्षसा ॥ ततः स राजा कौरव्य ! राक्षसं तं महाबलम् । आससाद महादेजा धुन्धुं धुन्धुनिवर्हणः ॥ तस्य वारिमयं वेगमापीय स नराधिपः । योगी योगेन वह्निञ्च शमयामास वारिणा ॥ निहत्य तं महाकायं बलेनोदकराक्षसम् । उतङ्कं दर्शयामास कृतकर्म्मा महायशाः ॥ उतङ्कस्तु वरं प्रादात् तस्मै राज्ञे महात्मने । अददाच्चाक्षयं वित्तं शत्रुभिश्चापराजयम् ॥ धर्म्मे रतिञ्च सततं स्वर्गे वासं तथाक्षयम् । पुत्त्राणाञ्चाक्षयाल्लो~कान् स्वर्गे ये राक्षसा हताः ॥” * ॥) शक्रगोपः । गृहधूमः । पदालिकः । इति मेदिनी । रे, २७० ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धुन्धुमार¦ पु॰ धुन्धुं मारयति मारि--अण् उप॰ स॰। राज-भेदे
“राजा हि वीर्य्यवांस्तात! इक्ष्वाकुरपराजितः। वृहदश्व इति ख्यातो भविष्यति महीपतिः। तस्य पुत्रःशुचिर्दान्तः कुबलाश्व इति श्रुतः। स योगबलमास्थाय-मामकम् पार्थिवोत्तमः। शासनात्तव विप्रर्षे! धुन्धु-मारो भविष्यति” भा॰ व॰
२०
० अ॰।
“वृहदश्व उवाच। भगवन्! न्यस्तशस्त्रोऽहमयन्तुतनयो मम। भविष्यति द्विजश्रेष्ठ! धुन्धुमारो नसंशयः। स तं व्यादिश्य तनयं राजर्षिर्द्धुन्धुमारणे। जगाम पर्वतायैव तपसे संशितव्रतः। कुबलाश्वस्तु पुत्राणांशतेन सह पार्थिवः। प्रायादुतङ्कसहितो धुन्धोस्तस्यनिवर्हणे। तमाविशत्तदा विष्णुस्तेजसा भगवान् प्रभुः। उतङ्कस्य नियोगाद्वै लोकानां हितकाम्यया। तस्मिन्प्रयाते दुर्द्धर्षे दिवि शब्दो महानभूत्। एष श्रीमान-सह्योऽद्य धुन्धुमारो भविष्यति। दिव्यैर्माल्यैश्च तं देवाःसमन्तात् समवाकिरन्। देवदुन्दुभयश्चैव प्रणेदुर्भरत-र्षभ!। स गत्वा जयतां श्रेष्ठस्तनयैः सह वीर्य्यवान्। समुद्रं स्वानयामास बालुकापूर्णमव्ययम। नारायणेनकौरव्य! तेजसाऽप्यायितस्तदा। स वभूव महातेजा भूयोबलसमन्वितः। तस्य पुत्रैः स्वनद्भिश्च बालुकान्तर्हितस्तदा। धुन्धुरासादितो राजन्! दिशमावृत्य पश्चिमाम्। मुख-जेनाग्निना क्रोधाल्लोकानुद्वर्त्तयन्निव। वारि सुस्राववेगेन महोदधिरिवोदये। सोमस्य, भरतश्रेष्ठ! धारोर्मि-कलिलं महत्। तस्य पुत्रशतं दग्धं त्रिभिरूनन्तुरक्षसा। ततः स राजा कौरव्य! राक्षसं तं महाव-लम्। आससाद महातेजा धुन्धुं धुन्धुनिवर्हणः। तस्य वारिमयं वेगमपिबत् स नराधिपः। योगी यो-गेन वह्निं स शमयामास वारिणा। निहत्य तं महा-[Page3895-a+ 38] कायं बलेनोदकराक्षसम्। उतङ्कं दर्शयामास कृतकर्मानराधिपः” हरिवं॰
११ अ॰
२१
४१ पृष्ठे कुबलाश्वशब्देअस्य चरितानीति यत् लिखितं तत् प्रमादात्किन्तु धुन्धुमारशब्द तच्चरितानि इत्येव तत्र पाठोबोध्यः। एतच्छब्दे च हरिवं॰ तच्चरितादिकथाऽत्रोक्ता
२ शक्रगोपे
३ गृहधूमे
४ पदालिके च मेदि॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धुन्धुमार¦ m. (-रः)
1. The name of a sovereign; also named Kuvalaya4swa.
2. An insect, (Coccinella.)
3. The smoke of a house.
4. A house. A house lizard E. धूम smoke reiterated, ऋ to go, affix अण्, deriv. irr. or धुन्धुं मारयति-मारि-अण्-उप-स० |
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धुन्धुमारः [dhundhumārḥ], 1 A kind of insect (इन्द्रगोप).
The smoke of a house.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धुन्धुमार/ धुन्धु--मार m. " slayer of -Dh धुन्धु" , N. of कुवलाश्वMBh. etc. (601409 -त्वn. Hariv. 672 )
धुन्धुमार/ धुन्धु--मार m. a son of त्रि-शङ्कुand father of युवना-श्वR. Das3.
धुन्धुमार/ धुन्धु--मार m. the cochineal insect L.
धुन्धुमार/ धुन्धु--मार m. a kind of plant(= गृह-धूम) L.
धुन्धुमार/ धुन्धु--मार m. a house-lizard (?) W.
धुन्धुमार/ धुन्धु--मार m. the smoke of a house (?) ib.
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--is कुवलाश्व (कुवलयाश्व). भा. IX. 6. २३; वा. ८८. २८.
Purana Encyclopedia
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
DHUNDHUMĀRA : A king of the Ikṣvāku dynasty. (See under Kuvalāśva). He was also called Kuvalayāśva
_______________________________
*4th word in right half of page 240 (+offset) in original book.
