सामग्री पर जाएँ

धुन्धुमारः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धुन्धुमारः, पुं, (धुन्धुं तन्नामकं राक्षसं मारय- तीति । मारि + अण् ।) कुवलयाश्वराजः । स तु बृहदश्वपुत्त्रः । इति पद्मपुराणम् ॥ (अस्य धन्धुमारणकथा यथा, हरिवंशे । ११ । ३९ -- ५५ । “स एवमुक्तो राजर्षिरुतङ्केन महात्मना । कुवलाश्वं सुतं प्रादात् तस्मै धुन्धुनिवारणे ॥ बृहदश्व उवाच । भगवन् ! न्यस्तशस्त्रोऽहमयन्तु तनयो मम । भविष्यति द्विजश्रेष्ठ ! धुन्धुमारो न संशयः ॥ स तं व्यादिश्य तनयं राजर्षिर्धुन्धुमारणे । जगाम पर्व्वतायैव तपसे संशितव्रतः ॥ कुवलाश्वस्तु पुत्त्राणां शतेन सह पार्थिव ! । प्रायादुतङ्कसहितो धुन्धोस्तस्य परिग्रहे ॥ तमाविशचदा विष्णुर्भगवांस्तेजसा विभुः । उतङ्कस्य नियोगाद्वै लोकानां हितकाम्यया ॥ तस्मिन प्रयाते दुर्द्धर्षे दिवि शब्दो महानभूत् । एष श्रीमान्नृपसुतो धुन्धुमारो भविष्यति ॥ दिव्यैर्म्माल्यैश्च तं देवाः समन्तात् समवाकिरन् । देवदुन्दुभयश्चापि प्रणेदुर्भरतर्षभ ! ॥ स गत्वा जयतां श्रेष्ठस्तनयैः सह वीर्य्यवान् । समुद्रं खानयामास बालुकार्णवमव्ययम् ॥ नारायणेन कौरव्य ! तेजसाप्यायितः स वै । बभूव सुमहातेजा भूयो बलसमन्वितः ॥ तस्य पुत्त्रैः खनद्भिस्तु बालुकान्तर्हितस्तदा । धुन्धुरासादितो राजन् ! दिशमाश्रित्य पश्चिमाम् ॥ मुखजेनाग्निना क्रोधाल्लोकानुद्वर्त्तयन्निव । वारि सुस्राव वेगेन महोदधिरिवोदये ॥ सोमस्य भरतश्रेष्ठ ! धारोर्म्मिकलिलं महत् । तस्य पुत्त्रशतं दग्धं त्रिभिरूणन्तु रक्षसा ॥ ततः स राजा कौरव्य ! राक्षसं तं महाबलम् । आससाद महादेजा धुन्धुं धुन्धुनिवर्हणः ॥ तस्य वारिमयं वेगमापीय स नराधिपः । योगी योगेन वह्निञ्च शमयामास वारिणा ॥ निहत्य तं महाकायं बलेनोदकराक्षसम् । उतङ्कं दर्शयामास कृतकर्म्मा महायशाः ॥ उतङ्कस्तु वरं प्रादात् तस्मै राज्ञे महात्मने । अददाच्चाक्षयं वित्तं शत्रुभिश्चापराजयम् ॥ धर्म्मे रतिञ्च सततं स्वर्गे वासं तथाक्षयम् । पुत्त्राणाञ्चाक्षयाल्लो~कान् स्वर्गे ये राक्षसा हताः ॥” * ॥) शक्रगोपः । गृहधूमः । पदालिकः । इति मेदिनी । रे, २७० ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धुन्धुमारः [dhundhumārḥ], 1 A kind of insect (इन्द्रगोप).

The smoke of a house.

"https://sa.wiktionary.org/w/index.php?title=धुन्धुमारः&oldid=332637" इत्यस्माद् प्रतिप्राप्तम्