धुरन्धर
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धुरन्धरः, पुं, धववृक्षः । इति रत्नमाला ॥ (पर्य्यायोऽस्य यथा, -- “धवो धटो नन्दितरुः स्थिरो गौरो धुरन्धरः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ धुरं धरतीति । धृ + खच् + मुम् ।) रथ- लाङ्गलादिभारवोढा । तत्पर्य्यायः । धुर्व्वहः २ धुर्य्यः ३ धौरेयः ४ धुरीणः ५ । इत्यमरः । २ । ९ । ६५ ॥ यथा, -- “धुरन्धरो धुरीणश्च धौरेयधुर्य्यधुर्व्वहाः । यत्र काम्यरथस्यापि लाङ्गलस्यापि वा धुरम् ॥ वहत्येकधुरीणः स्यात्तथा चैकधुरोऽपि च । स तु सर्व्वधुरीणः स्यात् सर्व्वा वहति यो धुरः ॥” इति शब्दरत्नावली ॥ (आदित्यनृपस्य मन्त्री । स तु कौशलेन राजानं हत्वा स्वययेव राज्यमकरोत् ॥ यथा, राजा- वल्याम् २ परिच्छेदे । “आदित्यस्य तदा मन्त्री अदूरान्वयसम्भवः । धुरन्धराभिधो धीरो बलबुद्धिनिकेतनः ॥ सेनापतीन् वशीचक्रे धनमानप्रदानतः । एकदा स तमादित्यमादित्यसमवर्च्चसम् ॥ एकान्ते नृपमासीनं हत्वा हतमतिस्तदा । तदासनं समारुह्य राज्यं प्राशाद्धुरन्धरः ॥ भूमिवेदमितान्वर्षान्भुक्त्वा भोगाननुत्तमान् । सेनोद्धतं सुतं राज्ये स्थापयित्वा लयं गतः ॥” राक्षसविशेषः । स तु प्रहस्तस्य सचिवविशेषः । यथा, गोः रामायणे । ६ । ३२ । १५ । “एतस्मिन्नन्तरे शूराः प्रहस्तस्य वशानुगाः । धुरन्धरः कुम्भहनुर्महानादः समुन्नदः । एते प्रहस्तसचिवाः सर्व्वे जग्मुर्वनौकसः ॥”) धुर्व्वाहकमात्रे, त्रि ॥ (यथा, महाभारते । ३ १८६ । १० । “अनड्वाहं सुव्रतं यो ददाति हलस्य वोढारमनन्तवीर्य्यम् । धुरन्धरं बलवन्तं युवानं प्राप्नोति लोकान् दशधेनुदस्य ॥” श्रेष्ठः । यथा, तत्रैव । १३ । १३७ । ३१ । “दत्त्वा तु सततं तैस्तु कौरवानां धुरन्धर ! । दानयज्ञक्रियायुक्ता बुद्धिर्धर्म्मोपचायिनी ॥”)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धुरन्धर¦ त्रि॰ धुरां धारयति खच् खचि ह्रस्वः।
१ भार-वाहके वृषादौ
“यस्माद्देवगणाः सर्वे स्थावराणि चराणिच। धुरन्धराङ्गे तिष्ठन्ति तस्मात् भक्तिः शिवेऽस्तु मे” हेमा॰ दा॰।
२ धववृक्षे पु॰ मेदि॰।
३ तत्तत्कर्मनिर्वाहरूपभारवाहे च।
“सन्त एव सतां नित्यमापदुद्धरण-क्षमाः। गजानां पङ्कमग्नानां गजा एव धुरन्धराः” हितो॰।
४ श्रेष्ठे च।
“धुरन्धरः पुण्यकृदेष तापसः” भा॰ उ॰
३७ अ॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धुरन्धर¦ mfn. (-रः-री-रं)
1. Bearing a burthen.
2. Bearing, (figuratively,) laden with good qualities, heavy duties, &c. m. (-रः)
1. A beast of burthen.
2. A man of business.
3. A tree, (Grislea tomentosa.) E. धुर् a burthen, and धृ to have, affix खच् | खचिह्रस्वः |
