धुर्य्यः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धुर्य्यः, त्रि, (धुरं वहतीति । धुर् + “धुरो यड्- ढकौ ।” ४ । ४ । ७७ । इति यत् । “न भकु- च्छुराम् ।” ८ । २ । ७९ । इति न दीर्घः ।) धुरन्धरः । इत्यमरः । २ । ९ । ६५ ॥ (यथा, रघुः । ५ । ६६ । “तामेकतस्तव बिभर्त्ति गुरुर्विनिद्र- स्तस्या भवानपरधुर्य्यपदावलम्बी ॥” श्रेष्ठः । यथा, भागवते । ४ । २२ । ४९ । “वण्यस्तु धुर्य्यो महतां संस्थित्याध्यात्मशिक्षया ॥” ऋषभौषधौ अनडुहि च पुं । इति राजनिर्घण्टः ॥ (अश्वादिरपि । यथा, महाभारते । ३ । १९७ । १२ । “पुनरपि चान्योऽप्यश्वार्थी ब्राह्मण आगच्छत् । त्वरितोऽथ तस्मै अपनह्य वामं धुर्य्यमददत् अथ प्रायात् ॥”)
