धूतः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धूतः, त्रि, (धू + क्तः ।) कम्पितः । (यथा, मेघ- दूते । ३५ । “धूतोद्यानं कुवलयरजोगन्धिभिर्गन्धवत्या- स्तोयक्रीडाविरतयुवतिस्नानतिक्तैर्मरुद्भिः ॥”) भर्त्सितः । इति मेदिनी । ते, २८ ॥ त्यक्तः । इत्यमरः । ३ । १ । १०७ ॥ तर्कितः । इति धरणिः ॥
