सामग्री पर जाएँ

धूतपाप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धूतपाप¦ त्रि॰ धूतं त्यक्तं पापं येन।

१ त्यक्तपापे

२ वेदशिरसोमुनेः शुचिनामाप्सरोजातायां कन्यायां स्त्री तस्या एवधर्मशापेन चन्द्रशिलात्मकतया नदीरूपेण प्रादुर्भावात्तद्रूपायां काशीस्थायां

३ नद्याञ्च स्त्री तत्कथा। काशीखण्ड

५१ अ॰ यथा
“पुरा वेदशिरा नाम मुनिरासीन्महातपाः। भृगुवंश-समुत्पन्नो मूर्त्तो वेद इवापरः। तपस्यतस्तस्य मुनेः पुरो-दृग्गोचरं गता। शुचिरप्सरसां श्रेष्ठा रूपलावण्य-शालिनी। तस्यादर्शनमात्रेण परिक्षुब्धं मुनेर्मनः। चस्कन्द स मुनिस्तूर्णं साथ भीता वराप्सराः” इत्युपक्रमे
“इदानीं शृणु कल्याणि! कर्त्तव्यं यत् त्वया शुचे। अमोघवीजा हि वयं तद्वीजमुररीकुरु। एतस्मिन्रक्षिते वीर्य्ये परिस्कन्ने त्वदीक्षणात्। त्वमावहभवित्र्यत्र कन्यारत्नं महाशुचे!। इत्युक्त्वा तेन मुनिनापुनर्जातेव साप्सराः। महाप्रसाद इत्युक्त्वा मुनेः शुक्र-मजीगिलत्। अथ कालेन दिव्यस्त्री कन्यारत्नमजीजनत्। अतीव नयनानन्दि निधानं रूपजेयसाम्। शुचिरप्स-रसां श्रेष्ठा जगाम त्रिदशालयम्। ताञ्च वेदशिराःकन्यां स्नेहेन समवर्द्धयत्। क्षीरेण, स्वाश्रमस्थायाहरिण्या हरिणीक्षणाम्। मुनिर्नाम ददौ तस्यैधूतपापेति चार्थवत्”। ततः पितुरुपदेशेन तपश्चरणेतस्या ब्रह्मतो वरप्राप्तिः धर्मशापेन नदीभावप्राप्तिरित्यादिकथा तत्रैवाध्याये यथा
“धूतपापोवाच। पितामह! वरो मह्यं यदि देयो वर-प्रद!। सर्वेभ्यः पावनेभ्योऽपि कुरु मामतिपावनीम्। स्रष्टा तदिष्टमाकर्ण्य नितरां तुष्टमानसः। प्रत्युवाच चतां बालां विमलां विमलैषिणीम्। ब्रह्मोवाच धूयपापे!पवित्रासि यानि सन्त्यत्र सर्वतः। तेभ्यः परित्रमतुलंत्वमाध वरतो मम। तिस्रः काट्यर्द्धकोटी च सन्ति-तीर्थान्यनेकशः। दिवि भुव्यन्तरीक्षे च पावनान्युत्तरो-त्तरम्। तानि सर्वाणि तीर्थानि” त्वत्तनौ प्रतिलोम वै। वसन्तु मम वाक्येन भव सर्वातिपावनी। इत्युक्त्वान्त-र्द्धधे वेधाः सापि निर्धूतकल्मषा। धूतपापोटजं प्राप्ता-[Page3896-b+ 38] ऽथोवेदशिरसः पितुः। कदाचित्तां समालोक्य खेल-न्तीमुटजाजिरे। धर्मस्तत्तपसा हृष्टः प्रार्थयामास कन्य-काम्। धर्म उवाच। पृथुश्रोणि! विशालाक्षि! क्षामो-दरि! शुभानने!। क्रीतः स्वरूपसम्पत्त्या त्वयाहं देहिमे रतिम्। नितरां बाधते कामस्त्वत्कृते मां सुलोचने!। इत्थं सुसाम्ना सा तेन प्रार्थितेत्यसकृद्रहः। उवाच सापिता दाता तं प्रार्थय सुदुर्मते!। पितृप्रदेया यत् कन्याश्रुतिरेषा सनातनी। निशम्येति वचो धर्मो भाविनो-ऽर्थस्य गौरवात्। पुनर्निर्बन्धयाञ्चक्रेऽपधृतिर्धृतिशा-लिनीम्। धर्म उवाच। न प्रार्थयेऽहं सुभगे! पितरं तव-सुन्दरि!। गान्धर्वेण विवाहेन कुरु मे त्वं समीहितम्। इति निर्बन्धवद्वाक्यं सा निशम्य कुमारिका। पितुःकन्या फलं दित्सुः पुनराहेति तं द्विजम्। अरे जडमते!मा त्वं पुनर्व्रूहीति याह्यतः। इत्युक्तोऽपि कुमार्य्या-स नातिष्ठन्मदनातुरः। ततः शशाप तं बाला प्रबला तप-सोबलात्। जडोऽस्यतितरां यस्माज्जलाधारो नदो भव। इति शप्तस्तया सोऽथ तां शशाप क्रुधान्वितः। कठोर-हृदये! त्वं तु शिला भव सुदुर्मते! स्कन्द उवाच। इत्यन्योऽन्यस्य शापेन मुने! धर्मनदोऽभवत्। अवि॰मुक्ते महाक्षेत्रे ख्यातो धर्मनदो महान्। साप्याहपितरं त्रस्ता स्वशिलात्वस्य कारणम्। ध्यानेन धर्मंविज्ञाय मुनिः कन्यामथाब्रवीत्। मा भैः पुत्रि! करिष्यामितव सर्वं शुभोदयम्। तच्छापो नान्यथा भूयाच्चन्द्रकान्त॰शिला भव। चन्द्रोदयमनुप्राप्य द्रवीभूता तनुस्तव। नदी॰भव सुते! साध्वि! धूतपापेति विश्रुता। स च धर्मो नदःकन्ये! तव भर्त्ता सुशोभनः। तैर्गुणैः परिपूर्णाङ्गो येगुणाः प्रार्थितास्त्वया। अन्यच्च शृणु सद्वुद्धे! ममापितपसोबलात्। द्वैरूप्यं भवतोर्भावि प्राकृतञ्च द्रवञ्चरम्। इत्याश्वास्य पिता तां तु धूतपापां परन्तपः। चन्द्रका-न्तशिलाभूतामनुजग्राह बुद्धिमान्। तदारभ्य मुने!काश्यां ख्यातो धर्मनदो ह्रदः। धर्मोद्रवस्वरूपेण महा-पातकनाशनः। धुनी च धूतपापा सा सर्वतीर्थमयीशुभा”।
“किरणा धूतपापा च तस्मिन् धर्मनदे शुभे। अवन्त्यौ पापसंहर्त्र्यौ वाराणस्यां शुभद्रवे। ततोभागीरथी प्राप्ता तेन दैलीपिना सह। भागीरथ्यासहायाता यमुना च सरस्वती। किरणा धूतपापा चपूर्ण्यतीर्थे सरस्वती। गङ्गा च यमुना चैव पञ्च नद्यःप्रकीर्त्तिताः”।
“करीषिणीं चित्रवहां चित्रसेनाञ्च[Page3897-a+ 38] निम्नगाम्। गोमतीं धूतपापाञ्च गण्डकीञ्च महानदीम्” भा॰ भी॰

९ अ॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धूतपाप¦ mfn. (-षः-षा-षं) Pure, free from sin. E. धूत shaken, पाप sin.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धूतपाप/ धूत--पाप mfn. = -कल्मषR.

धूतपाप/ धूत--पाप mfn. destroying sin MW.

"https://sa.wiktionary.org/w/index.php?title=धूतपाप&oldid=332953" इत्यस्माद् प्रतिप्राप्तम्