सामग्री पर जाएँ

धूपः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धूपः, पुं, (धूपयति स्वगन्धेन प्रीणयित्वादीप्यतीति । धूप + अच् ।) गन्धद्रव्यविशेषोत्थधूमस्तद्वर्त्तिश्च । तत्पर्य्यायः । गन्धपिशाचिका २ । इति हेम- चन्द्रः । ३ । ३१३ ॥ * ॥ यथा, -- “एवं वां कथितो दीपो धूपञ्च शृणुतं सुतौ । नासाक्षिरन्ध्रसुखदः सुगन्धोऽतिमनोहरः ॥ दह्यमानस्य काष्ठस्य प्रयतस्येतरस्य वा । कक्कोलमूषरं दार्व्वी गन्धमाद्री रसाञ्जनम् ॥ अष्टवर्गः शटी मेथी शिलाजिद्गन्धचन्दनम् । कुन्दुरू रेणुकं रास्नाजमोदा शतपुष्पिका ॥ हरिद्रा जीरकं वृक्षक्षीरञ्च रक्तचन्दनम् । कर्चूरकं मरुवकं यवानी ग्रन्थिकन्तथा ॥ शैलजं धातकीपुष्पं नखी मोचरसादिकम् । मुकुन्दधूपे देवर्षे ! सर्व्वमेतद्विवर्ज्जयेत् ॥” इति पाद्मोत्तरस्वण्डम् ॥ धूपदानविधिर्यथा, -- “मध्यमानामिकाभ्यान्तु मध्यपर्व्वणि देशिकः । अङ्गुष्ठाग्रेण देवेशि ! धृत्वा धूपं निवेदयेत् ॥ धूपस्थानं समभ्यर्च्च्य तर्ज्जन्या वामयास्पृशन् । धूपभाजनमन्त्रेण प्रोक्ष्याभ्यर्च्च्य हृदाणुना उत्तीर्य्य दृष्टिपर्य्यन्तं घण्टां वामदिशि स्थिताम् ॥ वादयन् वामहस्तेन दक्षहस्तेन चार्पयेत् ॥” इति तन्त्रसारः ॥ गन्धमाल्यमदत्त्वा धूपदाने दोषो यथा, -- “अदत्त्वा गन्धमाल्यानि यो मे धूपं प्रयच्छति । कूणपो जायते भूमे यातुधानो न संशयः ॥ वर्षाणि चैकविंशानि अयस्कारनिवासकः । तिष्ठतेऽत्र महाभागे ! एवमेतन्न संशयः ॥” इति वराहपुराणम् ॥ * ॥ विषघ्नधूपो यथा, -- “सक्तुः सर्ज्जरसोपेतः सर्षपा एलबालुकैः । सुवर्णा तस्करतरोः कुसुमैरर्ज्जुनस्य तु ॥ धूपो वासगृहे हन्ति विषं स्थावरजङ्गमम् । न तत्र कीटा न विषं न दर्दुरसरीसृपाः ॥ न कृत्या कर्म्मणस्तत्र धूपोऽयं यत्र दह्यते ॥” * ॥ सर्पनिर्म्मोचनधूपो यथा, -- “कार्पासास्थिभुजङ्गस्य यथा निर्म्मोचनं भवेत् । सर्पनिर्म्मोचनो धूपः प्रशस्तः सततं गृहे ॥” इति मत्स्यपुराणे १९२ अध्यायः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धूपः [dhūpḥ], [धूप्-अच्]

Incense, frankincense, perfume, any fragrant substance.

The vapour issuing from any fragrant substance (like gum, resin &c.), aromatic vapour or smoke; धूपोष्मणा त्याजितमार्द्रभावम् Ku.7.14; Me.34; V.3.2; R.16.5.

A fragrant powder.-Comp. -अगुरु n. a kind of agallochum used for incense.

अङ्गः turpentine.

the Sarala tree.-अर्हम् a black kind of agallochum. -ग्रहः a censer; N.15.29. -नेत्रम् a pipe for smoking; Charaka. -पात्रम् a vessel for incense, censer. -वर्तिः a kind of cigarette; K. -वासः fumigating, perfuming. -वृक्षः a kind of pine, the Sarala tree.

"https://sa.wiktionary.org/w/index.php?title=धूपः&oldid=333045" इत्यस्माद् प्रतिप्राप्तम्