सामग्री पर जाएँ

धूमपान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धूमपान¦ न॰

६ त॰। सुश्रुतोक्ते नेत्रव्रणादिरोगहरेधूमविशेषस्य पाने तद्विधिस्तत्रोक्तो यथा
“अथातो धूमनस्यकवलग्रहचिकित्सितं व्याख्यास्यामः। धूमः पञ्चविधो भवति। तद्यथा प्रायोगिकः स्नेहनोवैरेचनः कासघ्नो वामनीयश्चेति। तत्रैलादिना कुष्ठ-तगरवर्ज्येण श्लक्ष्णपिष्टेन द्वादशाङ्गुलं शरकाण्डंक्षौमेणाष्टाङ्गुलं वेष्टयित्वा लेपयेदेषा वर्त्तिः प्रायोगिके। स्नेहफलसारमधूच्छिष्टसर्जरसगुग्गुलुप्रभृतिभिः स्नेह-मिश्रैः स्नेहने। सिराविरेचनद्रव्यैर्वैरेचने। वृहतीकण्टकारिकात्रिकटुककासमर्द्दहिंग्विङ्गुदीत्वङ्मनःशिला-च्छिन्नरुहाकर्कटशृङ्गीप्रभृतिभिः कासहरैश्च कासघ्ने। स्नायुचर्मखुरशृङ्गकर्कटकास्थिशुष्कमत्स्यवल्लूरकृमिप्रभृति-भिर्वामनीयैश्च वामनीये। तत्र वस्तिनेत्रद्रव्यैर्धूम-नेत्रद्रव्याणि व्याख्यातानि भवन्ति। धूमनेत्रन्तु कनि-ष्ठिकापरिणाहमग्रे कलायमात्रं स्रोतोमूलेऽङ्गुष्ठपरि-णाहं धूमवर्त्तिप्रवेशस्रोतोऽङ्गुलान्यष्टचत्वारिंशत् प्रायो-निके। द्वात्रिंशत् स्नेहने। चतुर्विंशतिर्वैरेचने। षोड-शाङ्गुलं कासघ्ने वामनीये च। एते अपि कोलास्थि-मात्रच्छिद्रे भवतः। व्रणनेत्रमष्टाङ्गुलं व्रणधूपनार्मंकलायपरिमण्डलं कुलत्थवाहिस्रोत इति। अथ सु-खोपविष्टः सुमना ऋज्वधोदृष्टिरतन्द्रितः स्नेहाक्तां प्रदीप्तांवर्तिं (प्रदीप्य) नेत्रस्रोतसि धूमं पिबेत्। मुखेन तंपिबेत्पूर्वं नासिकाभ्यां ततः पिबेत्। मुखपीतं मुखे-नैव वमेत्पीतञ्च नासया। मुखेन धूममादाय नासि-काभ्यां न निर्हरेत्। तेन हि प्रतिलोमेन दृष्टिस्तत्रविहन्यते। विशेषतस्तु प्रायोगिकं घ्राणेनाददीतृ स्नेहनंमुखनासाभ्यां नासिकया वैरेचनं, मुखैनैवेतरे। तत्र प्रायो-गिके वर्त्तिं व्यपगतशरकाण्डां निवातातपशुष्कामङ्गारे-ष्ववदीप्य नेत्रमूलस्रोतसि प्रयुज्य धूममाहरेति ब्रूयात्। एवं स्नेहनं वैरेचनिकञ्च कुर्य्यादिति। इतरयोर्व्यपेतधूमाङ्गारस्थिरे समाहिते शरावे पक्षिप्य वर्त्तिं मूल-च्छिद्रणान्येन शरावेण पिधाय तन्मिन् छिद्रे नेत्रमूलंसंयोज्य धूममासेवत। प्रशान्ते धूमे वार्त्तमवशिष्टां[Page3900-b+ 38] प्रक्षिप्य पुनरपि धूमं पाययेदादोषविशुद्धेरेष धूम-पानोपायविधिः। तत्र शोकश्रमभयामर्षौष्ण्यबिषरक्त-पित्तमदमूर्च्छादाहपिपासापाण्डुरोगतालुशोषच्छर्द्दिशिरो-ऽभिघातोद्गारापतर्पिततिमिरप्रमेहोदराध्मानोर्द्ध्ववातार्त्ताबालवृद्धदुर्बलविरिक्तास्थापितजागरितगर्भिणीरूक्षक्षीणक्ष-तोरस्कमधुघृतदधिदुग्धमत्स्यमद्ययवागूपीताल्पकफाश्च नधूममासेवेरन्। अकालपीतः कुरुते भ्रममूर्च्छाशिरो-रुजः। घ्राणश्रोत्राक्षिजिह्वानामुपधातञ्च दारुणम्। आद्यास्तु त्रयो धूमा द्वादशसु कालेषूपादेयाः। तद्यथा क्षतदन्तप्रक्षालननस्यस्नानभोजनदिवास्वप्नमैथु-नच्छर्दिमूत्रोच्चाररुषितशस्त्रकर्मान्तेष्विति। तत्र मूत्रो-च्चारक्षवथुरुषितमैथुनान्तेषु स्नैहिकः स्नानच्छर्दन-दिवास्वप्नान्तेषु वैरेचनः। दन्तप्रक्षालननस्यस्नानभोजन-शस्त्रकर्मान्तेषु प्रायोगिक इति। तत्र स्नेहनो वातंशमयति स्नेहादुपलेपाच्च वैरेचनः श्लेष्माणमुत्क्लेश्याप-कर्षति रौक्ष्यात्तैक्ष्ण्यादौष्ण्याद्वैशद्याच्च। प्रायोगिकःश्लेष्माणमुत्क्लेशयत्युत्क्लिष्टं चापकर्षति साधारणत्वात्-पूर्वाभ्यामिति। भवति चात्र नरो धूमोपयोगाच्च प्रस-न्नेन्द्रियवाङ्मनाः। दृढकेशद्विजश्मश्रुसुगन्धिविशदाननः। कासश्वासारोचकास्योपलेपस्यरभेदमुखास्राववमथुतन्द्रानि-द्राहनुमन्यास्तम्भपीनसशिरोरोगकर्णाक्षिशूलवातकफनि-मित्ताश्चास्य मुखरोगा न भवन्ति। तस्य योगातियोगौविज्ञातव्यौ तत्र योगो रोगप्रशमनोऽतियोगो रोगा-प्रशमनस्तालुगलशोषपरिदाहपिपासामूर्च्छाभ्रममदकर्णा-क्षिदृष्टिनासारोगदौर्बल्यानीत्यतियोगो जनयति। प्रायोगिकं त्रींस्त्रीनुच्छ्वासानाददीत। मुखनासिकाभ्याञ्चपर्य्यायांस्त्रींश्चतुरो वेति। स्नैहिकं यावदश्रुप्रवृत्तिः। वैरेचनिकमादोषदर्शनात्। तिलतण्डुलयवागूपीतेनपातव्यो वामनीयः। ग्रासान्तरेषु कासघ्न इति। व्रण-धूमं शरावसम्पुटोपनीतेन नेत्रेण व्रणमानयेत् धूम-नाद्वेदनोपशमो व्रणवैशद्यमास्रावोपशमश्च भवति”।
“शोफद्रावरुजायुक्तान् धूमपानैर्विशोधयेत्” सुश्रुतः।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धूमपान/ धूम--पान n. inhalation of -smsmoke or vapour Car. , tobacco-smoking L.

"https://sa.wiktionary.org/w/index.php?title=धूमपान&oldid=333339" इत्यस्माद् प्रतिप्राप्तम्