सामग्री पर जाएँ

धूम्रः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धूम्रः, पुं, (धूमं धूमवर्णं रातीति । रा + कः । पृषोदरादित्वात् साधुः ।) श्यामरक्तमिश्रित- वर्णः । तत्पर्य्यायः । धूमलः २ कृष्णलोहितः ३ । तद्वति, त्रि । इत्यमरः । १ । ५ । १६ ॥ (यथा, रघौ । १५ । १६ । “धमधम्रो वसागन्धो ज्वालावभ्रुशिरोरुहः । क्रव्याद्गणपरीवारश्चिताग्निरिव जङ्गमः ॥”) तुरुस्कः । इति राजनिर्घण्टः ॥ (असुरविशेषः । यथा हरिवंशे । २३२ । ८ । “समुद्रो रभसश्चण्डो धूम्रश्चैव महासुरः ॥” स्कन्दस्य सैनिकविशेषः । यथा, महाभारते । ९ । ४५ । ६२ । “शृणु नामानि वाप्येषां येऽम्ये स्कन्दस्य सैनिकाः ।” “धूम्नः श्वेतकलिङ्गश्च सिद्धार्थो वरदस्तथा ॥”)

"https://sa.wiktionary.org/w/index.php?title=धूम्रः&oldid=142834" इत्यस्माद् प्रतिप्राप्तम्