सामग्री पर जाएँ

धूम्रपत्रा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धूम्रपत्रा, स्त्री, (धूम्रं धूभ्रवर्णं पत्रं यस्याः । अजादेराकृतिगणत्वात् टाप् ।) क्षुपविशेषः । तत्पर्य्यायः । धूम्राह्वा २ सुलभा ३ स्वयम्भुवा ४ गृध्रपत्रा ५ गृध्राणी ६ कृमिघ्नी ७ श्रीमला- पहा ८ । अस्या गुणाः । रसे तिक्तत्वम् । शोफकृमिकासनाशित्वम् । उष्णत्वम् । रुच्य- त्वम् । अग्निदीपनकारित्वञ्च । इति राज- निर्घण्टः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धूम्रपत्रा¦ स्त्री धूम्रं पत्रमस्याः जातित्वेऽपि अजादेराकृतिगणत्वात् टाप्। स्वयम्भुवायां क्षुपभेदे राजनि॰

१ धूम्र-वर्णपत्रयुक्ते त्रि॰।

"https://sa.wiktionary.org/w/index.php?title=धूम्रपत्रा&oldid=333674" इत्यस्माद् प्रतिप्राप्तम्