धूर्त्तः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धूर्त्तः, पुं, (धूर्व्वति हन्तीति । धूर्व्व + तन् ।) धुस्तूर- वृक्षः । इति मेदिनी । ते, २८ ॥ चोरकः । इति राजनिर्घण्टः ॥ (खण्डलवणम् । इति विश्वः । ते, २२ ॥)
धूर्त्तः, त्रि, (धूर्व्वति हिनस्तीति । धूर्व्व + “हसि- मृग्रिण्वामिदमिलूपूधूर्विभ्यस्तन् ।” उणां । ३ । ८६ । इति तन् ।) द्यूतकृत् । वञ्चकः । शेषस्य पर्य्यायः । मायी २ । इति हेमचन्द्रः । ३ । १४९ ॥ विटः ३ । इति मेदिनी । ते, २८ ॥ (यथा, महाभारते । ४ । ६ । १२ । “प्रिया हि धूर्त्ता मम देविनः सदा भवांश्च देवोपम ! राज्यमर्हति ॥” यथा च पञ्चतन्त्रे । ३ । ७३ । “नराणां नापितो धूर्त्तः पक्षिणां चैव वायसः । दंष्ट्रिणाञ्च शृगालश्च श्वेतभिक्षुस्तपस्विनाम् ॥”
