धूलिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धूलिः, स्त्री, (धुवति धूयते वेति । धू + बाहुल- कात् लिः ।) पार्थिवचूर्णम् । धूला इति भाषा ॥ (यथा, भागवते । ३ । १४ । २४ । “श्मशानचक्रानिलधूलिधूम्र- विकीर्णविद्योतजटाकलापः । भस्मावगुण्ठामलरुक्मदेहो देवस्त्रिभिः पश्यति देवरस्ते ॥”) तत्पर्य्यायः । रेणुः २ पांशुः ३ रजः ४ । इत्य- मरः । २ । ८ । ९८ ॥ धूली ५ पांसुः ६ । इति भरतः ॥ क्षितिकणः ७ क्षौद्रः ८ चूर्णम् ९ तूस्तम् १० महीद्रवः ११ वातकेतुः १२ नभः- केतुः १३ कणा १४ क्षितिकणा १५ । इति शब्दरत्नाबली ॥ * ॥ दीपखट्वातनुच्छायाछिन्नकेशनखादिकम् । अजमार्जाररेणुश्च हन्ति पुण्यं पुराकृतम् ॥” इति कर्म्मलोचनः ॥ “अजरजः स्वररजस्तथा सम्मार्ज्जनीरजः । स्त्रियः पादरजो राजन् ! शक्रादपि हरेत् श्रियम् ॥” इति लक्ष्मीचरित्रम् ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धूलिः [dhūliḥ], m., f. धूली
Dust; अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठते Śi.2.34.
Powder.
Comp. कुट्टिमम्, केदारः a mound, rampart of earth.
a ploughed field. -ध्वजः wind. -पटलः, -लम् a cloud of dust. -पुपिष्का, -पुष्पी the Ketaka plant. -हस्तयति (intran.) to smear the hands with dust; N.1.81.
