धृतः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धृतः, त्रि, धृधातोः कर्म्मणि कर्त्तरि च क्तप्रत्ययेन निष्पन्नः ॥ धारणविशिष्टः । धरा इति भाषा । (यथा, महाभारते । १ । ७४ । १०३ । “अश्वमेधसहस्रञ्च सत्यञ्च तुलया धृतम् । अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥”) अवध्वस्तः । पतित इति यावत् । स्थितः । (स्थिरीकृतः । निश्चितः । यथा, महाभारते । ७ । १६ । २८ । “धृतां धनञ्जयवधे प्रतिज्ञाञ्चापि चक्रिरे ॥” पुं, त्रयोदशमनो रौच्यस्य पुत्त्रविशेषः । यथा, हरिवंशे । ७ । ८२ । “चित्रसेनो विचित्रश्च नयो घर्म्मभृतो धृतः । सुनेत्रः क्षत्त्रवृद्धिश्च सुतपा निर्भयो दृढः । रौच्यस्यैते मनोः पुत्त्रा अन्तरे तु त्रयोदशे ॥” द्रुह्युवंशीयधर्म्मस्य पुत्त्रः । यथा, भागवते । ९ । २३ । १४ । “द्रुह्योश्च तनयो वभ्रुः सेतुस्तस्यात्मजस्ततः । आरब्धस्तस्य गान्धारस्तस्य धर्म्मस्ततो धृतः ॥”)
