धृतराष्ट्रः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धृतराष्ट्रः, पुं, (धृतं राष्ट्रं येन ।) दुर्य्योधनपिता । स जन्मान्धः शान्तनुपुत्त्रः विचित्रवीर्य्यक्षेत्रे व्यासाज्जातः । इति महाभारते । १ । ९५ । ५५ ॥ (अयं हि गन्धर्व्वपतेर्हंसस्य अंशावतारः । यथा, महाभारते । १ । ६७ । ८४ । “अरिष्टायास्तु यः पुत्त्रो हंस इत्यभिविश्रुतः । स गन्धर्व्वपतिर्जज्ञे कुरुवंशविवर्द्धनः ॥”) सुराजा । नागभेदः । इति मेदिनी । रे, २७१ ॥ (यथा, महाभारते । २ । ९ । ९ । “कम्बलाश्वतरौ नागौ धृतराष्ट्रबलाहकौ ॥”) पक्षिभेदः । इति विश्वहेमचन्द्रौ ॥ (गन्धर्व्व- विशेषः । यथा, विष्णुपुराणे । २ । १० । १५ । “ब्रह्मापेतोऽथ ऋतजित् धृतराष्ट्रोऽथ सप्तमः ॥” बलिराजस्य पुत्त्रविशेषः । यथा, हरिवंशे । ३ । ७४ । “बलेः पुत्त्रशतञ्चासीद्बाणज्येष्ठं नराधिप ! । धृतराष्ट्रश्च सूर्य्यश्च चन्द्रमाश्चेन्द्रतापनः ॥” जनमेजयस्य ज्येष्ठपुत्त्रः । यथा, महाभारते । १ । ९४ । ५४ । “जनमेजयस्य तनया भुवि ख्याता महाबलाः । धृतराष्ट्रः प्रथमजः पाण्डुर्व्वाह्लीक एव च ॥”)
